SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २७७ गोस्वामी चित्र इत्यन्वयबोधापत्तेः । चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र गवादेरन्वयाऽयोगात् । नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं ताशगोस्वामी गोपदेन लक्ष्यते इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्तासम्भवात् । . नच गोपदे साक्षात् सम्बन्ध एव विनिगमक इति वा. च्यम् । एवमपि प्राप्तोदकः, कृतविश्व इयायषष्ठयर्थबहुव्रीही विनिगमकाऽप्राप्तः। यौगिकानां कर्ताधर्थकतया साक्षात्सम्बन्धाऽविशेषात् । नच पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् । बोधावृत्ति भगोस्वामीति बोधो नाउनुपपन्नोऽत आह-*चित्रादिमात्रस्येति । आदिना गवादिपरिप्रहः । प्राथम्यात् पूर्वपदे लक्षणेत्याशयेन चित्र. पदोपादानम् । . *लक्ष्यैकदेशत्वेनेति । लक्ष्यगोस्वामिरूपपदार्थैकदेशत्वनेत्यर्थः। *अन्वयायोगादिति* । एकपदाऽर्थप्रकारतानिरूपितविशेष्यतास. म्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेनापरपदजन्योपस्थिते. हेतुतेत्यर्थपर्य्यवसितायाः, “पदार्थः पदार्थेनाऽन्वेति" इत्यादिव्यु. त्पत्तेविरोधादुक्तान्वयाऽभावादिति भावः ॥ कस्याचिन्मतमाशय निराचष्टे-*नचेति साक्षादिति ॥गोद्वारक इत्यर्थः(१)। तथाच षष्ठ्यर्थबहुधीही न व्युत्पत्स्यन्तरकल्पनमिति भावः ॥ *पदद्वय. ति* ॥ विनिगमकाऽभावादिति भावः ॥ *नैयायिकेति* ॥ अस्य प्राचीनेत्यादिः । एकदेशान्वयपक्षे हि तैरित्थमुक्तम् ॥ बोधावृ. (१) अयंभावः । शक्यसम्बन्धः सत्वनिरूपितस्वामित्वरूपः साक्षात्सम्बन्धः । चित्रपदस्य गुणवाचाकतायाः स्वशक्तिसमवा. यिनिष्ठत्वनिरूपितस्वामित्वरूप आश्रयद्रव्यघटितः परंपरासम्बन्धो लक्षणारूपो वाच्य इति गौरवामितिभावः। ........ ... ... ... ... ... .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy