SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७६ दर्पणसहिते वैयाकरणभूषणसारे त्पादावपि द्रष्टव्यम् । अत्र हि रथकर्मकवहनकर्ता, पशुकर्मकोपहरणोद्देश्यः, औदनकर्मकोदरणावधिः, बहुपाकक-धि. करणमिति बोधाभ्युपममात् । अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकमाप्तिकर्मत्वविशिष्ट प्राप्तोदक इया. दिसमुदायशक्त्यैव निर्वाह इति भावः ॥ ३२ ॥ साधकान्तरमा:अषष्ठयर्थबहुव्रीही(१) व्युत्पत्त्यन्तर कल्पना । क्लप्तत्यागश्वास्ति तव तत् किं शक्ति न कल्पयेः ॥३३॥ अयं भावः । चित्रगुरित्यादिषु चित्रगीनां स्वाम्यादि. प्रतीतिर्न विना शक्तिमुपपद्यते । न च तत्र लक्षणा । सा हि न चित्रपदे । चित्रस्वामी गौरिति बोधापत्तेः । नाऽपि गोपदे । भावः । द्रष्टव्यमिति । भवन्मने वहनकर्माभिन्नो रथ इति बोधोसरं सम्बन्धिनि लक्षणायामपि रथकर्मकवहनकर्ताऽनड्वानिती. प्सिताऽर्थस्याऽलाभ एव । कर्माऽर्थकक्तप्रत्ययस्व कर्तरि लक्षणायां तु धात्वर्थवहने रथस्य कर्मतया भेदसम्बन्धेनाऽन्वयो दुर्लभ एवो. कव्युत्पत्तिविरोधादिति पूर्वोक्तदिशाऽवसेयमित्यर्थः। *अत्र हीति* । बोधाऽभ्युपगमादित्येनेनाऽन्वयि । अत्र, 'ऊढरथः' इत्यादिसमासे विशिष्टशक्त्यभ्युपगमे तु न कस्या अपि व्युत्पतेर्विरोध इत्याह-*अतिरिक्तति ॥ ३२॥ षष्ठयर्थबहुव्रीहिपर्युदासे बीजं प्रदर्शयति-*अयम्भाव - ति*। *विना शक्तिमिति । समुदायशक्तिामत्यर्थः। *चित्रस्वामीत्यादि । समानाधिकरणनामाऽर्थयोरिति व्युत्पत्तेरिति भावः । ननु गोपदस्य गोमति लक्षणा । गवि चित्रस्याऽभेदान्वये चित्राऽभि (१) अषष्ठपर्थबहुव्रीहावित्यत्र षष्ठीपदम् सप्तम्या अप्युपलक्ष. णम् । षष्ठयर्थबहुव्रीहाविध सप्तम्यर्थबहुव्रीहावपि व्युत्पत्त्यन्तर. कल्पनाया अप्रसक्तः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy