SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। प्तिकम्र्मेति स्यात(१)। अन्यथा(२)समानाधिकरणमातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः । प्राप्तधात्वर्थतया कर्तृतासम्ब न्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा 'देवदत्तः पच्यते' इत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्व. यानापत्तः । ____ अथोदकाभित्रकर्तृका प्राप्तिरिति बोधोत्तरं सत्सम्बन्धि. ग्रामो लक्ष्यत इति चेन्न । प्राप्तापर्यतया तार्थकतारं प्रति विशेष्यताथा असम्भवात् "प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्" इति व्युत्पत्तेः । प्राप्तपदे प्राप्तर्विशेष्यत्वे तस्या एव नामाऽर्थत्वेनोदकेन सममभेदान्वयापत्तेश्च । एवम् , ऊढरथः, उपहृतपशुः, उद्धृतोदना,, बहुपाचिके. कपदाऽर्थयोरभेदान्वयाऽनभ्युपगमे इत्यर्थः । भङ्गापत्तेरिति । तादृशव्युत्पत्तरत्रैव व्यभिचारादिति भावः। ___ ननु तद्व्युत्पत्ती समानाधिकरणस्यैकाऽर्थाऽभिधायित्वस्यैव निवेशेन नेदं तद्विषयोऽत आह-*प्राप्तरिति*। *अन्वयासम्भ. धादिति । नामाऽर्थधात्वर्थयोः साक्षाद्भदेनाऽन्वयस्थाऽव्युत्पन्नत्वा. दिति भावः । * अन्यथा देवदत्त इति । अन्यथा-उक्तव्युत्पत्यमभ्यु. पगम इत्यर्थः । * ग्रामो लक्ष्यत इति । वाक्येनेति शेषः । उक्तबो. धस्य सम्भवदुक्तिकत्वे कथञ्चिल्लक्षणाऽपि कल्प्यते, तदेव नाऽस्ती. त्याह-प्राप्तेर्धात्वर्थतयेति । "प्रकृतिप्रत्यययोः" इति न्यायस्य संख्यादौ व्यभिचरितत्वं सम्भाव्याह-*प्राप्तपदे इति* I *नामार्थत्वेनेति । नामजन्यप्रतीतिविशेष्यस्यैव नामार्थत्वादिति भावः। ___ *अभेदान्वयापत्तश्चेति* । समानविभक्तिकनामाऽर्थयोरिति (१) 'प्राप्तिकर्माभिन्नमदक' इति बोधः स्यादित्यर्थः। (२) समानाधिकरणेति । समानविभक्तिकमातिपदिकार्थयो. रित्यर्थः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy