________________
समासशक्तिनिर्णयः ।
ननु, “सविशेषणानाम्” इतिवचनान्न विशेषणाद्यन्वयः, विभाषावचनश्च कृतमेवेत्याशङ्कां समाधत्ते वचनैरेवेति ॥ न्यायसिद्धमेव सूत्रम् । व्यपेक्षाविवक्षायां (व्यासस्य ) वाक्यस्य, एकार्थीभावे समासस्येति स्वभावतः प्रयोगनियमसम्भवात् । सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थैकदेशतयान्वयासम्भ वान्न्यायसिद्धमिति भावः ।
अत एव व्यपेक्षापक्षमुद्भाव्य, “अथैतस्मिन् व्यपेक्षाय सामर्थ्यं योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य" इति भा ष्यकारेण दूषणमप्युक्तम् ॥ ३१ ॥
तथा, धवखदिरौ निष्कौशाम्बिगरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण (१) इत्यादाविवरेतर -
સફ
* न्यायसिद्धमेव सूत्रमिति । इह व्यपेक्षायां समासो न भवत्येकाभावे वाक्यं न भवति । विभिन्नविषयत्वेन बाध्यबाधकभावाऽस. म्भवादिति न्यायसिद्धविभाषावचनं नाऽपूर्वमित्यर्थः । तदुक्तं भाष्ये । "न संज्ञाया भावाऽभावाविध्येते" इति । एकार्थानां विकल्पनानाऽर्थो विकल्पेनेति तद्भावः ।
*अन्वयासम्भवादिति* । वृत्तौ इयुपसर्जनपदेन प्रधानाऽर्थाऽभिधायिना भाव्यम् । स्वस्य विशेषणाऽऽकाङ्गायां च प्राधान्यमिति कथमेकदा प्राधान्यमेकार्थीभावश्चाऽस्य युगपद्गुणप्रधानभावविरोधादिति न्यायसिद्धमेवेत्यर्थः । *अत एवेति । व्यपेक्षावादस्याssपातरमणीयत्वादेवेत्यर्थः । *दूषणमप्युक्तमिति । अस्य नामाकारकत्वान्निघातयुष्मदस्मदादेशप्रतिषेधः । भयं दण्डो हराऽनेनेत्यादिनेति शेषः ॥ ३१ ॥
कैयटोक्तं दोषसङ्घातमाह - *तथेत्यादि* | * इति दूषणान्तर
(१) सप्तपर्ण इत्यत्र सप्त पर्णानि यस्य इत्याकारको न बहुव्रीहिवीप्साया अभावात्, किन्तु सप्त सप्त पर्णानि यस्य इत्याकारको बेोध्यः।
३५