SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणमुष्णसारे I साधकान्तरमाह-बहूनामिति ॥ वृत्तधर्म्मा विशेषणलिङ्गसङ्ख्याद्ययोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः । अयं भावः । विशिष्टशक्त्य स्वीकारे 'राज्ञः पुरुष' इत्यत्रेव ' राजपुरुप' इत्यत्राऽपि स्याद् विशेषणायन्वयः (१) । राजपदेन स्वतन्त्रोपस्थिति सच्चात् (२) । विभाषावचनञ्च समासनियमवारणाय कार्य्यमिति । २७२ 1 "राजपुरुष" इत्यादौ तु प्रत्येकपदवृत्त्याऽपि विशिष्टाऽर्थबोध निर्वा हे समुदायशक्तिकल्पनं तत्रोऽचितमेव । नाऽपि रथकाराऽधिकरणविरोधः। यौगिकाऽर्थरथकरणनिमित्ते वर्षाविधानस्य सङ्करस्य वि. शिष्टाधानापेक्षया लघुत्वेऽपि, "ऋभूणां त्वा देवानाम्” इति मन्त्रवर्णादृभुसौधन्वनपर्यायप्रतिलोमजातिरथकारस्यैव तदधिकारावर्गत्या लाघवाऽनादरेण रूढार्थे तंत्र विशिष्टाधानकल्पनात् । नचा पूर्वविद्याध्ययनकल्पनागौरवम् । फलमुखत्वात् । प्रकृते राजपुरुषादिसमुदाये शक्तिग्राहकं न तादृशं कोशादि येन तद्बलादवयवार्थः परित्यज्येतेत्याशयेन मूलमवतारयति -* साधकान्तरमिति* ॥ *लिङ्गेति* ॥ कुक्कुटाण्डमित्यादौ कुक्कुटपदार्थे स्त्रीत्वस्याप्रतीतेरिति भावः ॥ *सङ्खधेति ॥ राज्ञो राज्ञां वा पुरुष इति वाक्य उपसर्जनपदानि सङ्ख्याविशेषयुक्तस्वार्थमभिदधति समासे त्वन्तर्भूतस्वार्थ प्रधानाऽर्थमभिदधतीति भाष्यात्तत्र सङ्ख्याविशेषस्याऽप्रतीते. रिति भावः ॥ सङ्ख्यादत्यिादिपदाद् "इमे तकार्थीभावकृता विशेषाः, साविशेषो व्यक्त्यभिधानमुपसर्जनविशेषाणां चाऽयोगे" इति भाष्योक्तस्य, राज्ञो गवाश्वपुरुषा देवदत्तयज्ञदत्तविष्णु मित्राणां गोरित्यादौ चाsयोगस्य च सङ्ग्रहः *वचनैरिति । "सविशेषणानां वृत्तिर्न" इत्यादिभिरित्यर्थः । उक्तार्थमेव प्रकटयति * अयम्भाव इति* (१) तथाच 'वृद्धस्य राजपुरुषः' इति प्रयोगस्य साधुत्वं स्या दिति भावः । (२) उपस्थितौ स्वातन्त्र्यश्च - मुख्य विशेष्यताकत्वम् । तेन घटोनित्यः इत्यत्र घटत्वेऽनित्यपदार्थान्वयो न भवतीतिदिक् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy