SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २७१ त्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्वविद्याकल्पनमयुक्तं स्यादिति भावः(१)। रूढिं तां कल्पयित्वेति यावत् ।। *जातिविशेषस्येति* ॥ । रथकारस्तु माहिष्यात् करण्यां यस्य सम्भवः । इति स्मृतिसङ्कतिजातिविशिष्टस्येत्यर्थः ॥ *अयुक्तमिति* ॥ विनैव शास्त्रसङ्कोचं विधेश्चारितार्थ्यादिति भावः ॥ ननु प्रतिबन्देरनुत्तरत्वं । किञ्च, पङ्कजपदे लक्षणाऽपि न सुवचा। तथाहि । सा किं पङ्कजपदे, उत तदवयव-ड प्रत्यये। न तावदा. घः। समुदाये शक्यऽभावे तदर्घाटतलक्षणाया अप्यसम्भवात् । किश्च जहत्स्वार्थायास्तस्यास्तत्राऽसम्भव एव । अवयवाऽर्थविरोधि. न्या रूढेरभावात् । जहत्स्वार्था तु तत्रैव यत्र कादिविरोधिनी। __ इत्याभियुक्तोक्तेः। यथा, मण्डपं भोजयेत्यत्र मण्डपपदस्य गृहवि. शेषे रूढिोगविरोधिनी । रूढ्यर्थग्रहे मण्डपानकर्तृत्वरूपयोगार्थस्य बाधात्तत्र “रूढयोगापहारता" इति प्रवादादेव शक्त्या मण्डपानकतुर्बोधाऽसम्भवान्मण्डपपदस्य मण्डपानकर्तरि लक्षणा। तथाच तत्र रूढ्यर्थग्रहसम्बन्धितावच्छेदकतया गृहीतचैत्रत्वादिनैव तद्बोधो न मण्डपानकर्तृत्वेन । न च तथा प्रकृते । पद्मत्वेन लक्षणा. यामवयवार्थस्याभावेनाजहत्स्वार्थाया अप्यसंभवाच। जहत्स्वार्था त्व. घयवाऽर्थप्रतीत्यनुपपत्त्या न वक्तुं शक्या। __नान्त्यः । प्रकृत्यर्थस्यानन्वयापत्तेः । तदर्थे प्रत्ययस्यासाधुताप. तेश्चेति लक्षणानवसरादनापत्त्या तत्र विशिष्टशक्त्यभ्युपगमः ॥ (१) अयमभिप्रायः । रथकाराधिकरणे हि "वर्षासु रथकारोऽ. ग्रीनादधीत" इति श्रुतौ रथकारपदेन 'योगाढिर्बलीयसी' इति न्यायेन प्रतिलोमजातिविशेषस्य ग्रहणम् नतु रथनिर्माणकर्तृद्विजस्य । रथकारस्य च श्रुत्यन्यथानुपपत्त्या वेदाध्ययनाभावेऽपि आधानमात्रोपयोगिवेदाध्ययनं कल्प्यते इति राद्धान्तितम् तदस्मिन्पक्षेऽसंगतं स्यादिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy