________________
२७०
२७० दर्पणसहिते वैयाकरणभूषणसारे क्तिसाधकमेवेत्याशयेनाह-पङ्कजशब्दवदिति ॥ पङ्कजानिक रपि योगादेवोपस्थितौ तत्राऽपि समुदायशक्तिर्न सिद्ध्येत् । __ न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम् । चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् । लक्षणयैव तथोपस्थितिरिति चेत् , पङ्कजपदेऽपि सा मुबचा । एवं रथकारपदेऽपि ।
तथाच, "वर्षासु रथकारोऽग्निमादधीत" इत्यत्रापि विना लक्षणां क्लुप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कल्पनां कृ.
मार्थविषया इति ॥
जहत्स्वार्थवृत्तिपक्षे पङ्कजशब्दस्य पूर्वोक्तरीत्या दृष्टान्तत्वासम्भ. वेनाऽन्यथा मूलमवतारयति-*विशिष्टशक्त्यस्वीकर्तृणामिति* ॥ *साधकामिति ॥ विशिष्टशक्तिसाधकमेवेत्यर्थः । व्यपेक्षावादिनये 'राजपुरुष' इत्यादौ प्रत्येकपदवृत्त्या पदार्थोपस्थितावाकाङ्गादिव. शात् विशिष्टार्थबोधवत् पङ्कजपदादपि तथैव विशिष्टाऽर्थोपस्थित्या रूढेरुच्छेदापत्तिर्न च सा तवेष्टेत्याह- पङ्कजनिक रपीति* ॥ ते. न रूपेण पमस्यापीत्यर्थः ॥ *योगादेवेति ॥ अवयवशक्तेरवेत्यर्थः॥ तत्राऽपि-पङ्कजादिपदेऽपि । तत्र तत्स्वीकारे तु किमपराद्धं समासे विशिष्टशक्त्येति भावः ॥ - सा=समुदायशक्तिः। तत्कल्पनस्य= रूढिकल्पनस्येत्यर्थः । त. थोपस्थितिरिति* ॥ स्वामित्वादिना स्वाम्यायुपस्थितिरित्यर्थः ॥ *सुवचेति* ॥ पद्मवादिनापस्थितिरपि लक्षणयेति वक्तुं शक्य. मित्यर्थः। अधिकरणविरोधमपि तत्राह-*एवमिति ॥ *लक्षणा• मिति* ॥ निरूढलक्षणामित्यर्थः । तस्याः शक्तिसमकक्षत्वादिति भा. वः॥ योगोनेति* ॥ प्रत्येकपदवृत्त्युपस्थाप्यरथकर्तृत्वेनेत्यर्थः ।। *उ. पपत्ताविति || शास्त्रसङ्कोचमन्तरेणाऽप्यनुष्ठाननिर्वाह इत्यर्थः ॥ *तत्कल्पनामित्यादि* ॥ रूढिकल्पनामित्यर्थः । प्रतिलोमजातये