SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। ऽपीत्यर्थः । न च पङ्कजपदे रूढिस्वीकारे मानाभावः । समुदायात् पनत्वविशिष्टप्रतीतेरेव मानत्वात् । पदानियतोपस्थिते रूढ्येकसा. ध्यत्वात् पङ्कजपदाद् योगेन कुमुदस्यापि बोधप्रसङ्गाच्च । रूढिस्वी. कारेप्युद्भित्पदेन वृक्षादेरिव योगेन पङ्कजपदेन कुमुदमपि बोध्यत इति तु न । यत्र योगरूढिभ्यामेकार्थबोधस्तत्र केवलयौगिकार्थबोधे रुढेः प्रतिबन्धकत्वकल्पनात् । । अथवा,रूढ्या नियमतःस्मृतपझमेव कर्तव्यक्तिशक्तडप्रत्ययेन प. जनिकर्तृतया बोध्यते । “बाघकं विना व्यक्तिवचनानां सन्निहितव्य. क्तिविशेषपरत्वम्" इति नियमाद व्यक्तिववनानां यत्किञ्चिद्व्यक्तिः तात्पर्य्यकाणां सन्निहितो यो व्यक्तिविशेषस्तत्परत्वमिति तदर्थः । "घटेन जलमाहर"इत्यत्र सन्निहितसच्छिद्रव्यक्तिबोधवारणाय, तत्र बाधकं विनेति । तथाच पझे तात्पर्य्यसत्त्वेन तदेव योगेनाऽपि प्रतीयते, न कुमु. दम् ।प्रथमकल्पस्तु रूढिज्ञानस्य ग्राह्याभावानवगाहित्वाजनकज्ञाना. विघटकत्वाच्च प्रतिबन्धकत्वाऽसम्भवान्न क्षोदक्षमः । सिद्धरनायत्या माणिमन्त्रादिन्यायन प्रतिबन्धकत्वाभ्युपगमेऽप्यन्यत्र तत कल्पने मा. नाभावात् । इत्थश्च पद्मानुभवसामग्रीसत्त्वात् तस्यैव बोधो, न कुमुदस्य । सत्यां हि सामग्न्यां फलाऽनुत्पादे प्रतिबन्धकत्वापेक्षणा. दिति तार्किकाः । तदृष्टान्तेन वृत्तिसामान्य समुदाये शक्तिरावश्य. कीति कथने पूर्वोक्ताऽर्थ एव पर्यवस्यतीति। नवजहत्स्वार्थवृत्तिकल्पे विशिष्टशक्तेः सम्बन्धांशे विरामस्योक्तत्वाद्वाक्येऽपि सम्बन्धांशे एव तैः स्वीकारात् को वृत्तिवाक्ययोवैयाकरणनये विशेष इति चेदत्राहुः । तत्र हि फलबलात् पदार्थोपस्थितिकाले नियमतः सम्बन्धोऽश उद्बोधकासमवधानकल्पनेन पथगुपस्थितयोः संसर्गबोधः । वृत्तौ तु पदाऽर्थोपस्थितिसमकाल. मेव नियमतः संसगाशे उद्बोधकसमवधानकल्पनाद् विशिष्टाऽर्थोपस्थितिरिति वैलक्षण्योपपत्तेः । अत एव प्राप्तोदकादौ विशेष्यवि. शेषणभाववैपरत्येि तु न बोधः। तत्राप्रयुज्यमानद्वितीयाऽर्थः सम्बन्धश्चोभयं समुदायशक्तिसाध्यमनन्यलभ्यत्वात् । क्लप्ततक्त्यैव रा. जादिपदादाजादेरुपस्थितिसम्भवन तत्र समुदायशक्तिकल्पने गौर. वाच्च । नामाऽर्थयोरभेदान्वय इत्यादिव्युत्पत्तयश्च पृथगुपस्थितना.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy