SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६८ दर्पणसहिते वैयाकरणभूषणसारे - व्यपेक्षावादस्यैवं युक्तिभाष्यविरुद्धत्वात् तन्मूलक :(१) पू. र्वपदार्थप्रधान इत्याद्युत्सर्गोऽप्ययुक्तः । किन्तु रेखागवयन्यायेनोत्सर्गोऽपि परम्परयैव बोधक इत्याशयेन समाधत्ते समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ॥ ३२ ॥ बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद गौरवं तस्मादेकार्थीभाव आश्रितः ॥३१॥ . समास इति वृत्तिमात्रोपलक्षणम् । “समर्थः पदविधिः" (पा० मू० २।१।) इत्यत्र पदमुद्दिश्य यो विधीयते स. मासादिः स समर्थः । विग्रहवाक्याथोऽभिधाने शक्तः सन् साधुरिति सुत्रार्थस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वश्च कृत्त. द्धितसमासैकशेष(२)सनाद्यन्तधातुरूपासु पञ्चस्वपि वृत्तिष्व. स्त्येव । विशिष्टशक्त्यस्वीकर्तृणां व्यपेक्षावादिनां मते दूषणं श - *व्यपेक्षावादस्येति । अव्यवहितोक्तविधया वर्णितस्येति शे. षः । उक्ताऽजहत्स्वार्थपक्षस्य तु निर्दिष्टत्वमेवेति भावः। *एवं यु. कीति । उक्तवक्ष्यमाणेत्यर्थः। *भाष्येति । "नानाकारकानिघा. तयुष्मदस्मदादेशप्रतिषेधः" इत्यादिभाष्यदृषितत्वादित्यर्थः । * वृत्तिमात्रेति* । मात्रपदं कृत्स्नार्थकम् । अजहत्स्वार्थलक्षणया वृ. त्तिपश्चकोपस्थापकमित्यर्थः । *वाक्यार्थाभिधान इति । तथाभिधाने इत्यर्थः। भाष्यादित्यस्य, समर्थानां पदवचनमित्यादिः। मूले, * पङ्कजशब्दवदिति* ॥ सप्तम्यन्ताद्वतिः । उपमेये सप्तमी. दर्शनात् । पङ्कजशब्दे यथाऽवयवशक्त्यतिरिक्तशक्तिस्तद्वत्समासे (१) व्यपेक्षावादमूलक इत्यर्थः।। (२)वस्तुतः एकशेषस्य न वृतित्वम् । परार्थान्वितिस्वार्थबोधकस्वरूपैकार्थीभावाभावात् । शिष्टपदेन स्ववृत्त्यैव तत्तत्समहरूपार्थस्य भानमिति भाष्य स्पष्टमुक्तत्वादित्याद्यन्यत्र स्पष्टम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy