________________
२६७
समासशक्तिनिर्णयः। । प्रसङ्गाद् वृत्तिभेदमपि निरूपयति-ते पुनरिति ॥ द्वे अपि वृत्ती त्रिविधे वाच्यत्रविध्यात् । वाच्यमेवाह-भेद इत्यादि ॥ भेदा=अन्योन्याभावः । तथाच, राजपुरुष इत्यादावराजकीय. भिन्न इति बोधः । अस्यावाच्यत्वे च, राजपुरुषः सुन्दर इति. वद्, राजपुरुषो देवदत्तस्य चेत्याप स्यात् । वाच्यत्वे तद्विरोधान्नै प्रयोग इति भावः । ____ राजसम्बन्धवानित्येव शाब्दं भानं, भेदस्तूत्तरकालमुपतिष्ठत इत्याशयेनाह संसर्ग इति ॥ विनिगमनाविरहम् , अस्वा. मिकेऽपि राजपुरुष इत्यादिप्रयोगापत्तिश्च(१) मनासि कृत्वोभयं वाच्यमित्याह-उभयं वेति ॥ तथाचाsराजकीयभिन्नो राजसम्बन्धवाश्चायमिति बोधः ॥ ३१ ॥ .
___*प्रसङ्गादिति* । स्मृतिकालावच्छिन्नोपेक्षतानहताऽवच्छेद. कधर्मवत्वादित्यर्थः। वृत्तिभेदमिति* । वृत्तेः समासादिवृत्तभेद भेदसंसर्गादिरूपाऽर्थकृतमित्यर्थः । तदुक्तं भाये, “सामर्थ्य नाम भे. दः संसर्गों वा । अपर आह, भेदसंसर्गो वा सामर्थ्यम्" इति । यदि वृत्तौ भेदसंसर्गौ न स्यातां तदा सामर्थ्यमेव न स्यात्तदात्मकत्वा. सामर्थ्यस्येत्यतस्तदर्थकत्वं तस्येति तदभावः । भेद इति । संसर्गाविनाभावित्वादनुमीयमानतादात्म्यसम्बन्धाऽवच्छिन्नप्रतियो. गिताकाभाव इत्यर्थः। तदेवाह-*अन्योन्याभाव इति* ॥ *संसर्ग इति । भेदाऽविनाभावित्वादनुमीयमानभेदो भेदमूलकः संसर्ग इत्यर्थः।
वस्तुतस्तु "भेदसंसर्गो वा सामर्थम्" इति भाष्यस्य राजादिपदसमभिव्याहृतपुरुषादिपदेन राजादिविशिष्टपुरुषादिरूपविशिष्टाऽर्थस्यैव बोध इत्यभिप्रायः । न तु भेदे पृथक्शक्तिबोधकं तत् । ता. दृशबोधाननुभवात । रामकृष्णावित्यादिद्वन्द्व भेदस्य वाच्यतया दु रुपपादत्वाच्चेति ॥ ३०॥
(१) अस्वामिकेऽपि राजभिन्नस्वामिकभेदस्य सत्वादिति भावः।