________________
२६६
दर्पणसहिते वैयाकरणभूषणसारे प्रामाणिकः कल्प्येत । तथाचाकाङ्क्षादिवशात् क्लुप्तशक्त्यैव वि.. शिष्टार्थबोधः । अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः ।
नचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः । “स. विशेषणानां त्तिर्न वृत्तस्य वा विशेषणयोगो न" इति वार्तितः कात्(१) । तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थसत्त्वाद् पूर्वपदार्थप्रधान इत्यादिव्यवस्था सुपपदेति भावः ।
स्तत्परित्याग इत्यर्थः । कालभेदेनाऽप्येकस्यैव शब्दस्याऽर्थवत्वाऽन. र्थकत्वयोर्विरुद्धत्वात् । नलोपादिव्यवस्थाऽनुपपत्त्या च वृत्तिदशायां तत्स्वीकारस्यवोचितत्वादिति भावः।
ननु प्रत्येकशक्त्या तत्तत्पदार्थोपीस्थतावपि विशिष्ट शक्त्यनगी. कारेण तदनुपस्थित्या कथं तस्य शाब्दविषयतेत्यत आह-तथाचेति | *आकाङ्केति । आदिपदाद्योग्यताऽऽदिपरिग्रहः । राजपदाव्यवहितपुरुषपदत्त्वादिरूपकारणसमवधानादित्यर्थः । त. थाच प्रत्येकपदार्थोऽपस्थितिसहकृताऽऽकालाऽऽदिभिरेव वि. शिष्टबोधसम्भवेन तत्पूर्व विशिष्टोपस्थित्यपेक्षा यस्यै सा कल्पवेति भावः । *अयमेवेति* । अयमाभिप्राय इत्यादि. नोक्त एवेत्यर्थः । भाष्यकारैरित्यस्य परस्परव्यपक्षां सामर्थ्य. मेक इत्यादिनेति शेषः। उक्तापत्तिमुद्धरति । *नचाति* / *अ. न्वयापत्तिरिति * । यथाश्रुताऽभिप्रायेण सम्बन्धिलक्षणायामापत्तेर. भावस्य वक्ष्यमाणत्वात ॥ संसर्गकबोधोऽगीकरणीयः । तथाच "नामार्थः” इति व्युत्पत्तिविरोध इति चेन्न । “नामार्थयोरभेदान्वयः” इति व्युत्पत्तेः समासव्यतिरिक्तविषयकत्वं स्वीक्रियत इति भावः। (१) ननु वार्तिकांगीकारे गौरवस्य सत्वात् कथमस्यपक्ष्यस्योपपत्तिरिति चेत् । विशिष्टशक्तिस्वीकारेऽनेकशक्तिकल्पनापेक्षयैकवचनस्वीकारे लाघवमित्याशयात् ।