________________
समासशक्तिनिर्णयः। :
२१५
। अन्यथा राजपदेन विग्रहवाक्य इव, राज्ञः स्वातन्त्र्येणोपस्थितिसच्चाद्, ऋद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुष इत्यस्याप्यापत्तेरिति ।
अजहदिति । न जहति पदानि स्वार्थ यस्यां सा अजहस्वार्था ।(१)
अयमभिप्रायः । राजपुरुषादिसमासादौ नातिरिक्ता शक्तिः । कल्पकाभावात् । क्लुप्तराजपदादेवार्थोपस्थितिसम्भवे तस्कल्पनस्य गौरवपराहतत्वाच्च(२) । क्लुप्तशक्तित्यागोऽप्य
मर्थ जह्यादुपगुधाऽपत्यार्थे वर्तमानः स्वमर्थ जह्यादिति तत्कल्प ऽपि पूर्वपदाऽर्थ एव जहत्स्वार्थत्वं लभ्यते इति ॥ ___ *अन्यथेति । वृत्तौ व्यपेक्षारूपसामर्थ्याऽभ्युपगमे इत्यर्थः। इत्यस्याऽपीत्यपिना राक्षः,पुरुषो भार्यायाश्चेत्येकत्र द्वयमिति विषयताशालिबोधजनकस्य समुञ्चयः । *आपत्तेरिति । अस्मन्मते तु पदार्थैकदेशेत्वाद्रेदेऽपि शक्त्यभ्युपगमेन राजकीयभिन्नत्वेनाऽवगते विशेषणाऽन्तराऽयोगाश्च न सेति भावः। अजहत्स्वार्थवृत्तिपक्षस्य भाष्याऽनुसारणाऽन्यथैवोपपादनाद् व्यपेक्षासामर्थ्य मेक इत्येकीय. मताश्रिताननुसृत्याह-*अयमभिप्राय इति* *नातिरिक्तति ।क्लं प्तप्रत्येकवृत्त्यतिरिक्तेत्यर्थः । कल्पकस्याऽन्यथाऽनुपपत्तिरूपप्रमाण. स्याभावादित्यर्थः। ।
ननु विशिष्टाऽर्थानुपपत्तिरेव तत्कल्पिका भविष्यतीत्यत आह*क्लप्त इति तत्कल्पनस्य-विशिष्टशक्तिकल्पनस्येत्यर्थः। ननु स्यादेवं यद्येतत्पक्षे प्रत्येकपदशक्तिकल्पना,सैवनेति व गौरवाऽवसरोऽत. आह-*क्लप्तशक्तीति । वृत्तिप्राक्काले क्लता वा प्रत्येकपदशक्तिः
(२) अत्रापि न जहति स्वानि ये ते अजहत्स्वाः तादृशा अर्था यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यथा वैय्यधिकरण्यापत्तः।
(२) ननु विशिष्टशक्तिकल्पनं न गौरवपराहतम् । “नामार्थयोरभेदान्वयः" इति व्युत्पत्तेः सत्वात् । विशिष्टशक्त्यस्वीकारे च स्वत्वादि