________________
२६४ दर्पणसहिते वैयाकरणभूषणसारे
आनुपूर्व्यन्तरघटकत्वाभावविशिष्टाऽनुपूर्या एव शक्ततावच्छे. दकत्वेन वृषभादिपदान्तर्गतवृषादिसमवतानु पूर्व्याः शक्तताऽनव. च्छदकत्ववत समासाऽन्तर्गतराजानुपूाः शक्ततावच्छेदकत्वाऽस. म्भवादित्यर्थः । अन्यथा रामादिपदादरम्यादीनामवयवार्थानामपि पदार्थोपस्थितिशाब्दबोधयोरापत्तिरवान्तरसुबुत्पत्त्यापत्तिर्धनं वन. मित्यादी जश्त्वाऽऽपत्तिश्च । वाक्ये तु पदान्यथवन्त्येव । राजसम्बनधी पुरुष इत्याद्यर्थे राज्ञः पुरुषः, पुरुषो राश इत्यादिविशिष्टानुपूर्वीद्वयस्य शक्यतावच्छेदकत्वकल्पनाऽपेक्षया पदशक्तिकल्पनाया एव. लघीयस्त्वादिति भावः। .. नचतत्कल्प विशिष्टरूपोपादानविहितत्वाऽनापत्त्या, महाबाहुः, सुपन्था इत्यादौ दोषः। अनर्थकत्वाद् । एवमर्थवत्वनिबन्धनप्राति पदिकत्वाभावन नलोदाद्यनापत्तिश्चेति वाच्यम् । वृत्तिप्राग्भाविन. मर्थवत्वमारोप्य तत्तत्तात्पर्यस्य सुपपादत्वात् । इदं च, "प्रत्ययात्तरपदयोश्च" ( पा० सू०७।२।१७) इति सूत्र भाष्ये स्पष्टम् ।
नचैवं, 'वाप्यश्व' इत्यादौ न दोषो जहत्स्वार्थायां वृत्तावानर्थः क्यातू "इतीदूनी च सप्तम्यर्थे" (पा० सू० १ । १ । १९) इति सूत्र. स्थभाष्यविरोधी दुष्पारिहरः । आरोपिताऽर्थवत्वस्य समासान्त. तपदेषु स्वीकारादिति वाच्यम् । अर्थग्रहणसामर्थ्यनारोपिताऽर्थ. स्य तत्राग्रहणादित्याशयातू । एकस्यैव पदस्य वृत्तितत्प्राक्कालयो. रर्थवत्वानर्थवत्वं च प्रयोगाऽनुरोध एव शरणम् । योगरूढिस्थले तु योगान्तर्भावेण शक्त्यभ्युपगमान्न तदुच्छेदोऽपि । - नचाऽत्र पक्षे राजादिपदैः सर्वथा स्वार्थत्यागे तद्भानं न स्यात्तस्माञ्चकपदार्थोऽपरपदार्थे विशेषणमिति व्यवहार इति पाच्यम् । विशिष्टनैव राजादिविशिष्टपुरुषाधुपस्थापनेनाऽद्यदो. षाभावात् । अथवाऽन्वयाद् विशेषणं भवतीति भाष्येण द्वि. तीयस्यापि सामाधानात् । निष्कीर्णास्वपि सुमनःस्वामोदा. न्वयमात्रेण यथा चम्पकपुटव्यवहारस्तथा सहशार्थाऽन्वयमात्रेण राजादिपदार्थः पुरुषे विशेषणमिति व्यवहार इति तदर्थ इति जहस्वाथवृत्तिपक्षोपपत्तिः । परन्त्वेवं हि दृश्यते लोके । पुरुषोऽयं पर. कर्मणि प्रवर्त्तमानः स्वं कर्म जहाति, तद्यथा तक्षा राजकर्मणि प्रवसमानः स्वं कर्म जहाति । एवमुक्त, यद्राजा पुरुषार्थे वतमानः स्व.