________________
.... समासक्तिनिर्णयः।
२६३ ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् । तथाहि । समर्थः पदविधिरिति सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु जहत्वार्थाऽजहत्स्वार्थपक्षयोरेवैका भावव्यपेक्षारूपयोः पर्यवसानं लभ्य. ते । तत्राऽजहत्स्वार्थापक्षे उक्तव्यवस्था नाऽसम्भविनीत्याश मनसिकृत्य आह. जहत्स्वार्थाजहत्स्वार्थे वे वृत्ती ते पुनस्त्रिधा ॥ ३० ॥
भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः । ... - जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था(१)। पदे वर्णवद् वृत्तौ पदानामानर्थक्यमित्यर्थः । अयं भावः । समासशक्त्यैव राजविशिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुन. स्तबोधकत्वं कल्प्यम् । वृषभयावकादिपदेषु वृषादिपदानामिव ।
दुःसूपपाद इत्याशयेन मूलमवतारयति-* नन्विति ॥ *अनेकधो. कष्विति * ॥ “अथ तेषां ब्रुवतां किं जहतस्वार्था वृत्तिराहोस्विदज. हतस्वार्था" इत्यादिनेत्यादिः॥ *एकार्थीभावव्यपेक्षति* ॥ एकार्थीभावस्तूक्तः। व्यपेक्षा तु समस्तपदानां परस्परसाकाहत्वम् । * पर्यघसानं लभ्यते इति ॥ समर्थसूत्रभाष्यपालोचनया तु एकार्थी. भावः सामर्थ्य मिति पक्ष एव वृत्तिद्वयस्वीकारो बोधभेदेन, किन्तु, अथ ये वृत्तिं वर्तवन्ति किं ते आहुरित्यादिभाज्या वाक्यादेवेयं वृत्तिनिष्पन्नति मतमवलम्च्याऽयं विचार हात लभ्यते ॥ समासशक्तंचवे. स्येवकारेणाऽवयवशक्तिम्यवच्छेदः । दृष्टान्तमाह-वृषादिपदाना. मिवेति ॥
(१) “सप्तमीविषेश वहुवीही" इत्यत्र सप्तम्यन्तस्य पूर्वनिपात. बोधकसप्तमीपदोपादानेन व्यधिकरणानामपि पदानां कविद्हुवी. हि भवतीति ज्ञापनात्, अत्र व्यधिकरणपदबहुव्रीहावपि न दोषः। घस्तुतस्तु जहति स्वानि वृत्तिघटकाभूतपदानि यं स जहत्स्वः ता. शोऽर्थो यस्यामिति समानाधिकरणपदकोऽपि संभवतीतिदिक् ।
-