________________
समासशक्तिनिर्णयः।
२६१ चारात् । तथाहि । उन्मत्तगङ्गमिन्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः(१)। अन्यपदार्थमाधान्याद् बहुव्रीहिलक्षणा. तिव्याप्तिश्च । “अन्यपदार्थे च संज्ञायाम्" (पा० मु०२।१।२१) इति समासात् । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पु. रुपलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च(२) । "सुप् प्रतिना मात्रार्थे” (पा० सू० २ । १।९ इति समासात् । अर्द्धपिप्पा लीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्वाद अव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । “अर्द्धं नपुंसकम्" (पा० सू० २।२।२) इति समासात् । ___ एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्रा इति बहुव्रीहावु. भयपदार्थप्राधान्य द्वन्द्वातिव्याप्तिबहुव्रीव्याप्तिश्च । शशकुशपलाशमियादिद्वन्द्वे समाहारान्यपदार्थप्राधान्याद् बहुव्रीह्यतिव्या
जसम्बन्धिपुरुषोत्तरपदाऽर्थस्य, पीताऽम्बर इत्यत्र पीताऽभिन्नाऽम्ब. स्सम्बन्धिनोऽन्यपदार्थस्य, धवखदिरावित्यत्र साहित्यापनधवख. दिरयोः पूर्वोत्तरपदाऽर्थयोर्विशष्यतया भानाद् यथायथं लक्षणस. मन्वयः॥ *व्यभिचारादिति* ॥ यद्यपि व्यभिचारोऽतिव्याप्तिरेव तथापि प्रकृते दोषत्वेन व्यभिचारपदेनोभयं लक्ष्यते । तद्वक्ष्यति *अ. व्याप्तिरिति*तमवाभिमयेन प्रदर्शयति-*तथाहीत्यादि* ॥ *पूर्वपदार्थति ॥ उन्मत्तादिपदाऽर्थत्यर्थः । एवमग्रेऽपि ॥ *अव्ययीभा. घलक्षणेति। पूर्वपदार्थविशष्यकबाधजनकत्वरूपतल्लक्षणस्य सस्व. रूपेत्यर्थः ॥ *अन्यपदार्थप्राधान्यादिति* ॥ समासाघटकसप्तम्य
ऽधिकरणविशष्यकबोधजनकत्वादलक्ष्ये लक्षणसत्त्वरूपत्वर्थः । *बहुव्रीहीति* ॥ तल्लक्षणेत्यर्थः । एवमग्रेऽपि । . ..
(१) अव्ययीभावलक्षणस्यति पाठः। . (२) सुप्सम्बन्धिलेश इत्याकारकोत्तरपदार्थविशेष्यकबोधजनकत्वादित्यर्थः।