SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ दर्पणसहिते वैयाकरणभूषणसारे "गतिकारकोपपदानां कृद्भिः सह समामवचनं प्राक् सुबुत्पत्तेः" इति परिभाषया भवति सुबुत्पत्तेः प्राक् । अत्रोत्तपदे सुबुत्पत्तेः प्रागित्यर्थः । अन्यथा, चर्मक्रीतीसादौ नलोपानापत्तेः ॥ . .सुपां धातुना ॥ उत्तरपदं धातुमात्रं, न तिङन्तम् । कटमः। आयतस्तूः । “किम्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्घश्च" इति वार्तिकात् ॥ तिडां तिङा ।। पिबतखादता पचतभृजतेत्यादिः । "आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकाधन्तर्गणमूत्रात् ॥ तिङां सुबन्तेन ॥ पूर्वपदं तिङन्तमुत्तरं सुबन्तम् । जहिस्तम्बः । "जहि कम्मणा बहुलमाभीक्ष्ण्ये करिश्चाभिद. धाति" इति मयूरव्यसकाछन्तर्गणसूत्रात(*) । अयं षड्विधोऽपि समासः, "सहसुपा" (पा० सू०२।१४) निकैकवचनस्य तु तथा सुबन्तस्याऽनभिधानादेवाऽप्रवृत्तिरिति भावः। *अन्यथेति* । सुवुत्पत्तेः प्राक्समाससंज्ञाऽभ्युपगम इत्यर्थः । नळोपेत्यस्याऽपदत्यादित्यादिः । यद्यपि 'उपपदम्' (पा० सू०२। २। १९) इति सुत्रे भाष्येऽनयोर्योंगयोनिवृत्तं सुप्सुपेत्युक्तं, तथाप्यु. पपदमिति महासंज्ञाबलादेव पूर्वपदस्य सुबुत्पत्यानन्तरं समास इति भावः । प्राक्सुबुत्पत्तेरित्येकदेशप्रयोजनप्रदर्शनमिषेण परिभाषायाः प्रयोजनमपि दर्शितम्। सुबुत्पत्तः पश्चात् समासे हि स्वाथेद्रव्यलिङ्गसंख्याकारकाणां क्रमिकत्वस्यान्तरङ्गबहिरङ्गभावमूलकस्य "कु. रिसते" (पा० सू० ५ . ३ । ७४) इति सूत्रभाष्यसम्मतत्वनाऽन्तरङ्गस्वात् सुबुत्पत्तेः पूर्व टाप्यनदन्तत्वात् , “क्रीतात् करणपूर्वात्" (पा० सू०४।१।५०) इति ङीषोऽनुपपत्तेरिति दिक् । .(*) सूत्रार्थस्तु जहीत्यतत् तिअन्तं कर्मार्थकसुबन्तेन समस्यते आभीक्ष्ण्ये गम्ये कर्बभिप्रायकवेत् समासः। "जहिस्तम्बः" इति सामासिकपदस्यार्थस्तु 'स्तम्बघातकर्ता' इति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy