________________
. . . समासशक्तिनिर्णयः ।
... सुपी सुपा ॥ पदद्वयमपि मुबन्त, राजपुरुष(१) इत्यादिः ॥ सुपां तिका पूर्वपदं सुबन्तमुत्तरपदं तिङन्तम् । पर्यभूषयत् । अनुष्यचलत(२) । “गतिमतोदात्तवता तिडाऽपि समास" इति वार्तिकात समासः॥ सुपां नाना ।। कुम्भकार इत्यादिः। “उप. पदमति" ( पा० सू० २।२।१९) इति समासः। स च,
जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी इति ।
अवयवाऽर्थविरुद्धो यत्र समुदायाऽर्थस्तत्रैव सा, यथा कृष्णस. पदाविति तदर्थः । अयमेव पक्षः,
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ।
इतिवदनो मूलकृतः सम्मतः । तथा सति पङ्कजशब्दादौ परयो गरूड्यभ्युपगमेन तदृष्टान्तोपन्याससार्थक्यात् । जहत्स्वार्था वृत्ति. रिति पक्षस्य तत्सम्मतत्वे स्वमते तस्य पक्षतया तत्र तदनभ्युः पगमेन तदुपन्यासाऽनुपपत्तेः स्पष्टत्वात् । भधिकमग्रे वक्ष्यत इति । ___ *गतिमतोदात्तवतेति* । उपलक्षणमिदं, सह सुपति योगविभागस्याऽपि । 'अनुव्यचलत्' इत्यत्राऽनाय॑चलदित्यनन वेश्चाऽचल. दित्यनेन युगपत्समासः । अन्विति सुबन्तेन व्यचलदिति समुदायस्य समर्थत्वात् सत्यां समाससंज्ञायां शाकलप्रतिषेधाद्यणादेशः समा. साऽन्तोदात्तत्वं च भवति । तिडैकत्वस्योक्तत्वात् प्रकृत्यर्थव्यापारस्थ संख्यान्वयाऽयोग्यत्वाद्वा न ततः सुबुत्पत्तिः। समयपरिपालकौत्स.
(१) ननु प्रथमोपस्थितत्वात 'कृष्णं श्रित' इत्यादीनि त्यक्त्वा कथं 'राजपुरुष' इत्युदाहरणमिति चेत् "णिजां त्रयाणाम्" इत्यत्र णिजामिति बहुवचनेन प्रथमोपस्थितत्वात् त्रित्वस्यैव लाभे "प्रया. णाम्" इतिपदोपादानेन प्रथमोपस्थितेत्यादिन्यायानाश्रयणम् व्या. करणशास्त्रे इति सूचयितुं राजपुरुषेति तदुदाहरणमिति बोध्यम् ।
(२) अत्र “समासस्य" इत्यन्तादात्तं बाधित्वा "तत्पुरुषेतुल्या. र्थ" इत्यव्ययपर्वपदप्रकृतिस्वरे प्राप्ते तदपवादेन “गतिकारकोप" इतिसंत्रणोत्तरपदप्रकृातस्वरेणाट् स्वरस्यावस्थानं भवति। वार्ति ककारेण तत्रत्यकद्रहणस्य प्रत्याख्यानात् ।