________________
२५६
दर्पणसहिते वैयाकरणभूषणसारे
॥ अथ समासशक्तिनिर्णयः ॥ समासान् विभजते. सुमं सुपा तिङा नाम्ना धातुनाऽथ तिङ तिङा ॥ सुबन्तेनेति च ज्ञेयः समासः षड्विधो बुधैः ॥२८॥
क्लप्तशक्त्यैव निर्वाहान्न नामसमुदायाऽऽत्मकसमासेऽतिरिक्ता शक्तिरिति मतं दूषयिष्यन् प्रसङ्गात्समासाऽर्थ निरूपयितुमादौ तद्वि. भागप्रदर्शनमित्याशयेनाऽऽह समासानिति* ॥ समासत्वं च श. क्तिसम्बन्धेन समाप्तपदवत्त्वम् (१)एकार्थीभावापन्नपदसमुदायवि. शेषो वा । एकार्थीभावे मानं च "कि पुनः समर्थ नाम ? पृथगाना. मेकार्थीभावः समर्थवचनम् । व पुनः पृथगानि, ककार्थानि । वा. क्ये पृथगानि-राक्षः पुरुष इति, समासे पुनरेकार्थानि-राजपुरुष" इति समर्थसूत्रस्थं भाष्यम् । तन्मूलिका वक्ष्यमाणा युक्तयश्च ।
तत्रैकार्थत्वमेकोपस्थितिविषयाऽर्थकत्वम् । न त्वेकाऽर्थशक्तः त्वम् । घटादिपदानामपि घटघटत्वसम्बन्धरूपनामार्थशक्तत्वेनैका. अर्थताऽनापत्तेः । नानोपस्थितिविषयार्थकत्वं पृथगर्थकत्वम् । यथा वाक्ये, पृथक्पदानामाकलादिसहकारेण विशिष्टार्थप्रत्ययः । नैव वृत्तौ, किन्त्ववयवशक्त्या समुदायशक्तिसहकृतया जायमाना पदा. र्थोपस्थितिरेव विशेष्यविशेषणभावाऽऽपन्नविशिष्टाऽर्थमवगाहते । "संस्पृष्टार्थे समर्थम्" इति भाष्यात । राजपुरुषादिपदं राजसम्ब. न्धवत्पुरुषादी शक्तमित्याकारकः शक्तिग्रहः । ततश्च प्राप्ताऽप्राप्तवि. वैकेन विशिष्टशक्तिः षष्ठयाद्यर्थे पर्यवस्यति । अत एव न तत्र रा. जादौ सुन्दराऽऽदिपदार्थाऽन्वयः । एकदेशत्वात् । “देवदत्तस्य गुरुकुलम्" इत्यादौ तु गमकत्वात् स इति वक्ष्यते। जहत्स्वार्थवृत्तिः पदानामानथक्यमिति तु न सम्यक् । महाबाहुरित्यादावात्वाद्यना. पत्तेः । भूतपूर्वगत्याश्रयणं तु सत्यां गतावनुचितम् । तदुक्तं
(१) अन्ये तु पाणिन्यादिसंकेतसम्बन्धेन समासपदवत्वम् । 'समासपदेन घटादिबोद्धव्य' इत्याकारकपुरुषान्तरीयसंकेतसम्बन्धेन समासपदवत्त्वस्य घटादावतिव्याप्तिः स्यादिति पाणिन्यादति ।