SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५६ .. नामार्थनिर्णयः। . . न प्रतिपदिकत्व(१), नापि पदत्वम् । अथ च साधुत्वमित्युपप. घते । अन्यथा "प्रत्ययः" (पा० सू० ३।१।१) "परश्च" ( पा० सू० ३। १.२) "अपदं न प्रयुञ्जति" इति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः ॥ २७ ॥ . . इति श्रीवैयाकरणभूषणसारे नामाऽर्थनिर्णयः ॥ ४ ॥ र्थस्यैव लाभात् । सति तात्पर्ये क्वचिदन्यत्रापि विशेष्यांऽशे त. द्भानाऽभ्युपगमे क्षतिविरहाच्च । अत एव, नलादीनां विशिष्य त. सदूपेणानुपस्थितत्वेऽपि, नलपदवाच्यः कश्चिदासादिति सामान्य. शक्तिमहातत्पदवाच्यत्वेन तेषां बोधः प्राचीनसम्मत उपपद्यते । अभेदे शब्दभानं तु, परे त्वित्युक्तभाष्यसम्मतमतेनैव । अत एव त. स्मादविकृतस्यैव बोधः । हरिवचनानि तु प्रणवब्रह्मणोरभेदोपासना श्रद्धाऽतिशयबोधकानि भवन्तीति न तैर्व्यावहारिकाऽर्थस्य सिद्धि. स्तस्मान्छाब्दबोधमात्रस्य शब्दविषयकत्वं न विचारसहमधिकम व्यक्तीभविष्यतीति ॥ २६ ॥ ___ *अन्यथेति ॥ भेदपक्षस्यैवाऽभ्युपगमे इत्यर्थः ॥ *प्रत्ययः प. रश्चेति ॥ नियमशास्त्राणां निषेधमुखेनाऽपि प्रवृत्तेः प्रत्ययपरैव प्रकृतिः प्रयोकव्या, न केवलेति नियममूलकस्य "अपदं न प्रयुञ्जी. त" इति निषेधविधेः प्रत्यययोग्यस्य प्रत्ययं विना प्रयोगेऽतिक्रम. णादसाधुतापत्तरित्यर्थः । अस्मन्मते तु तस्य प्रत्यययोग्यत्वाऽभा. वाभिषेधविषयताया एवाऽभावात्तदतिक्रमणाऽप्रसक्तः साधुत्वादेव च तत्रावादेशादिरपि । अन्यथा भाषाशब्देष्विव न तत्प्रवृत्तिः स्या. दिति भावः ॥ २७ ॥ इति श्रीभूषणसारदर्पणे नामाऽर्थनिरूपणम् ॥ ४॥ (१) वृत्यार्थबोधकत्वरूपार्थवत्वाभावादितिशेषः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy