SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५४ दर्पणसहिते वैयाकरणभूषणसारे प्रसङ्गादनुका-नुकरणयोरभेदपक्षे साधकमाहअत एव गवित्याह भू सत्तायामितीदृशम् ॥ न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ॥२७॥ "गवित्ययमाह" "भू सत्तायाम्" इत्येवमादयो यतोऽनुकरणशब्दा अनुकार्यान्न भिद्यन्ते, अतस्तेषामर्थववाभावाद्, "अर्थवदधातुः" (पा० सू० १।४।४२) इत्याच(१)प्रवृत्ती रंण्येन । नाद्यः घटादिप्रत्यक्षाव्यवहितप्राप्तस्थले घटादिपदोपस्थिते. रमैयत्येन ताशप्रत्यक्षस्य घटादिपदविषयकत्वाऽसम्भवात् । एवं घटाद्यनुमितावपि तद्भानं न सम्भवति । व्यापकतया तदवच्छेद कतया या व्याप्तिग्रहे तदभानात् । तदनन्तरं घटपदं साक्षात्करोमि घटपदमनुमिनामीत्यनुव्यवसायाऽभावाच । न द्वितीयः । घटपद. शानजन्योपस्थितेस्तद्वाचकपदाऽभावेन तस्य शाब्दविषयत्वाऽसम्भवात् । पदज्ञानस्य सम्बन्धिज्ञानविधयाऽर्थस्मारकत्वेन हस्तिपकद. र्शनजन्यहस्त्युपस्थिती हस्तिपकस्यैव तजन्याऽर्थोपस्थितावुद्बोध. कतावच्छेदकपदस्य विषयत्वाऽसम्भवाच्च । घटो न घट इतिसा. र्वजनीनप्रतीत्या शब्दाऽर्थयोस्तादात्म्ये मानाऽभावेन नाऽर्थाकारवृत्तेः शब्दाऽऽकारतासम्भवोऽपि घटशब्दबोधाऽनन्तरं घटपदं शा. ब्दयामीति प्रतीतेः सार्वजनीनत्वे क्षणविलम्बसहिष्णुता सम्भवेद. पिन च तस्यास्तथात्वमिति न किञ्चिदेतत् । __अपिच, भिन्ने विषयेऽनुमितिसामग्या बलवत्ता, यत्र ताशा. ऽनुमितिसामग्रीकाले केवलघटत्वविशिष्टविषयिका शाब्दधीर्जाय. तामितीच्छाबलाद् घटशाब्दधीस्तत्र घटांशे तद्भानं दुरुपपादमेव । घटशदशाब्देच्छाविरहविशिष्टभिन्नविषयकाऽनुमितिसामग्न्याः प्र. तिबन्धिकायाः सत्वात् । माऽपि तृतीयः । सिद्धसाधनात् । विष्णु. मुच्चारयेत्यादी विष्ण्वादिपदानां लक्षणया शाब्दविषयतायाः परैः रभ्युपगमात् । उक्तभाग्यादपि क्वचिच्छाब्दबोधे शब्दो विषय इत्य. (१) आदिपदं च कृदन्तत्वादिसंग्राहकम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy