________________
नामार्थनिर्णयः।
२५३ ग्रह्यत्वं ग्रहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति ॥ विषयत्वमनादृत्य शब्दै ऽर्थः प्रकाश्यते ॥ इति च ।
मों, “मतौ छः सूक्तसाम्नोः " (पा० सू० ५।२।५९) इत्यत्र भाष्यकैयटयोः॥
स्वप्रतियोगिकत्वविशिष्टसम्बन्धस्य स्वस्मिन् सत्तां तेजओदृष्टा. न्तव्याजेन दर्शयन् स्वोक्ते हरिसम्मतिमाह-*उक्तश्चेति । ग्राह्यत्वं= बोध्यत्वम् । ग्राहकत्वबोधकत्वम् । एते-ग्राह्यत्वग्राहकत्वे । पृथव. स्थिते इत्यनेन तयोरसमनयत्यं दर्शयति । दीपादिरूपतेजसो विष. यसन्निधाने शक्तिद्वयं लोके प्रत्यक्षसिद्धम् । तदसमवधाने तु ग्राह्य, त्वमेव यथा, तथा शब्दानामर्थाऽबाधे उक्तशक्तिद्वयम् । तदुबाधे तु ग्राह्यत्वमेवेति तदर्थः। ____स्वरूपमिति सूत्रभाष्यादप्युक्ताऽर्थस्यैव लाभादिति तस्यैव प.. द्यान्तरमाह-*विषत्वमिति * । स्वस्य विषयतामसम्पाद्य शब्दरों न बोध्यते इत्यर्थः । स्वजन्यार्थबोधत्वस्य स्वविषयकरवव्याप्यत्वा. दिति यावत् । - अयं भावः । शब्दार्थयोरभेदमते तन्मूलकाऽध्यासाच्छब्दादर्थाः ऽऽकारवृत्तौ जायमानायां शब्देनाऽपि तस्यां स्वाकारसमर्पणमिति शाब्दबोधस्य शब्दविषयकत्वसिद्धिरिति(१)।। ___ अत्र वदन्ति । "न सोऽस्ति प्रत्ययो लोके” इत्युक्तत्वात् किं बोधत्वाऽवच्छेदेन शब्दबिषयकत्वं प्रतिज्ञायते, उत ग्राह्यत्वमिति पद्यन्याच्छन्दत्वाऽवच्छेदेन तत्वम् । किं वा शाब्दत्वसामानाधिकदम्' इत्यस्य अपरिनिष्ठितत्वमर्थः । 'गवित्ययमाह' इत्यादिकानां शिष्टप्रयोगादेव परिनिष्ठितत्वमिति दिक् ।।
(१) ग्राह्यत्वमित्यादिश्लोकतात्पर्यार्थस्तु अन्धःकारे घटादिप्रत्यक्षवारणाय द्रव्यचाक्षुषत्वावच्छिन्नं प्रति तेजःसंयोगः कारण. मित्यङ्गीकरणीयम् । तथा च यथा घटदीपाद्यालोकसंयोगः घटादि. कं प्रकाशयति तद्वत् स्वं दीपादिकमपि दीपालोकसंयोगः प्रकाश. यति । एवं शब्दोऽर्थवत् स्वस्यापि प्रत्यक्षजनकः।