________________
२५२ दर्पणसहिले वैयाकरणभूषणसारे उक्तश्च वाक्यपदीये ---
शब्दमात्रस्य शाब्दे भानं निर्वाह्यमिति भावः । स्वीयप्रत्यक्षाऽऽत्म. कबोधजनकत्वस्य वृत्तित्वं दुरुपपादम् । शादबोधजनकपदार्थोपस्थितिजनकज्ञानविषयताऽवच्छेदकसम्बन्धस्यैव तत्त्वात् । न चै. तादृशशानेन शाब्दबोधात् प्राक् शब्दरूपपदार्थोपस्थितिजन्यते । नाऽपिबोधकत्वेपि बोधकत्ववदिति ज्ञानं तदानीमस्तीति येन साऽपि सम्भाव्येत तस्मात् । कथमेतदिति चेत् ।
अत्र वदन्ति । सम्बन्धस्येत्यादिग्रन्थस्य पदवृत्युपस्थितेनार्थेन सम्बन्धाऽविशेषाच्छब्दोपस्थितिस्ततः शब्दाऽर्थयोरुभयोरपि शा. ब्दे भानं शब्दवृत्तिप्रयोज्यत्वस्योपस्थितिद्वये सत्त्वादित्यर्थपरत्वानोक्ताऽनुपपत्तिः । तत्राऽर्थस्यवेत्यनन्तरं बोध्यत्वादिति शेषः। तद्बोधकत्वेनेत्यत्र तदाऽश्याहतप्रागुपस्थिताऽर्थपदार्थपरामर्शस्यैवौ. चित्यादर्थबोधकत्वेनेत्यर्थात् । तदुक्तं
यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति ।
शाब्दबोधस्तु वक्ष्यमाणहादिवाक्यप्रामाण्यात् क्षणविलम्बे. नैवाऽभ्युपगन्तव्यः। अनुकार्यस्थाऽभेदपक्षे भानाय प्रकारान्तरमे. वाऽनुसतव्यमिति ।
परे तु-उक्तमते पदार्थोपस्थितेः शाब्दबोधहेतुतायां तदवच्छे. दककोटी तत्तत्सम्बन्धावच्छिन्नवृत्तिज्ञानजन्यवानवेशावश्यकत्वेन वृत्तेधा प्रवेशे गोरवम् । अन्यतरत्वेन सम्बन्धनिवेशे धन्यतरत्व. घटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तत्तादवस्थ्यमे व । तदषेक्षाऽभेदपक्षे सादृश्यसम्बन्धेनाऽनुकरणादनुकायोपस्थि. तिस्तथोपस्थितस्याऽपि तात्पर्य्यवशाच्छाब्दभानं वृत्तिज्ञानजन्यता. वच्छेदककोटौ सादृश्यज्ञानाऽजन्यत्वनिवेशात् तद्धतुतायां व्यभि. चारः । अत एव, गवित्ययमाहेत्यादौ न विभक्त्युत्पत्तिः । वृत्त्यार्थ. बोधकत्वरूपाऽर्थवत्त्वाऽभावनाऽप्रातिपदिकत्वात् (१)। स्पष्टश्चाऽय.
(२) ननु प्रातिपदिकत्वाभावे विभक्त्यभावेनापदत्वात् कथं तस्य प्रयोगः, 'अपदं न प्रयञ्जीत' इति निषेधात् इति चेत् । तत्र 'अप.