________________
नामार्थनिर्णयः ।
२५१
यद्यप्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तयाप्यत्राश्रयतया वृत्तिमश्वस्य सभ्वान्नाऽनुपपत्तिः । निरूपकताश्रयताऽन्यतरसम्बन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यते इत्यनवद्यम् । सम्बन्धस्योभयनिरूप्यत्वात् पदार्थस्येव तद्बोधकत्वेन स्वस्याऽपि ज्ञानसम्भवाच्चेति ।
भयोरेव शब्दाद्भानम् । यत्र च लोके शब्दे इतरपदार्थान्वयबाधस्तaisisशे शब्दस्य विशेषणता । यत्र त्वर्थे "विष्णुमुच्चारय” “अग्ने ढक्” ( पा० सू० ४ । २ । ३३ ) इत्यादौ तत्र शब्दांशेऽर्थस्य विशेपणतेति स्पष्टप्रतिपत्तेः, विषयत्वमनादृत्येति वाक्यपदीयाच्चेति । *अतिप्रसङ्गेति* । घटो ऽस्तीत्यतः समवायेनै कज्ञानविषयत्वाऽऽदिना वौपस्थितस्याSSकाशादेः शाब्दे भानाऽऽपत्तिवारणायेत्यर्थः । *वृत्तिजन्येति* । वृत्तिज्ञानजन्येत्यर्थः । *पदोपस्थितिरिति । धपदं शृण्वत्यादौ तादृशपदोपस्थितेर्हेतुताया दर्शनात् प्रकृते ख तदभावेऽनुकरणस्य शाब्दविषयत्वं दुर्घटमिति भावः ।
*आश्रयेति* । इदं च, बोधकत्वं शक्तिरित्यभ्युपेत्य । बोध्यत्वं सेति पक्षे तु, निरूपकतयेति बोध्यम् ।
नन्वाश्रयता संसर्गेण वृत्तिमत्वस्यैव शाब्दबोधविषयत्वे तन्त्रत्वे निरूपकतासंसर्गेण वृत्तिमतः शाब्दे भानाऽनुपपत्तिरत आह #निरूपकतेति* | प्रामाणिकगौरवस्यादोषत्वादिति भावः (१) । *अनवद्यमिति । वृत्तिनिरूपकार्थबोधकत्वस्यैव प्रातिपदिकस्वे तन्त्रश्वानाऽभेदपक्षे तत्संज्ञाप्रसक्तिरिति भावः ।
ननु स्वप्रतियोगिकत्वविशिष्टसम्बन्धाऽऽश्रयतायाः स्वस्मिन्ननभ्युपगमेन कथमनुकरणस्य वृत्तिमत्तेत्यत आह-* सम्बन्धस्येति । *तद्बोधकत्वेनेति*। प्रत्यक्षाऽऽत्नकशाब्दबोधजनकत्वेनेत्यर्थः । तथाच हर्य्यादिवाक्यप्रामाण्यात् प्रकृते स्वस्मिन्नपि तादृशसम्बन्धाश्रयताऽभ्युपगमान्न तस्य शाब्दे भानाऽनुपपत्तिरित्यनयेव रीत्या
(१) अस्य 'अनुभवानुरोधात् तथाविधान्यतरसम्बन्धेन शब्दभानप्रयोजकत्वकल्पेन' इत्यादिः ।