________________
दर्पणसहिते वैयाकरणभूषणसारे
अयं भावः । अनुकार्याऽनुकरणयोर्भेदे (१) अनुकीयस्य पदानुपस्थितत्वात् तत्सिद्धये शक्तिरुपेया । शब्दार्थयोरभेदे, प्रत्यक्षे विषयस्य हेतुत्वात । स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषयतोपपत्तिरिति ।
२५०
अन्धोपस्थित्यभावादत आह *अयम्भाव इति * पदाऽनुपस्थित• स्वादित्यस्य शाब्दबोधे भानाऽनुपपत्त्येति शेषः ॥ तत्सिद्धये= शाब्दबोधजनकपदजन्योपस्थितये इत्यर्थः ॥
*शक्तिरिति* असम्बद्धस्य तत्स्मृत्यजनकत्वादिति शेषः । तथाच पदवृत्तिज्ञानजन्योपस्थिति सद्भावात्तस्य शाब्दविषयता सुलभेति । *अभेदे इति* । अभेदे इति विवक्षायामित्यर्थः । तत्पश्ने निरू प्यनिरूपकत्वयोर्भेदनिबन्धनत्वेनानुकरणे तद्वृत्त्यसम्भवादिति भा वः । *हेतुत्वादिति* । उपस्थितिनिष्ठजन्यतायामन्वेति । *स्वप्रत्यक्षेति* | अनुकरणप्रत्यक्षरूपामित्यर्थः ।
*शाब्दबोधविषयतोपपत्तिरिति । अयमाशयः । अभेदपक्षे स्वप्रत्यक्षरूपामुपस्थितिमादाय यथा शाब्द शब्दस्य भानं तथैव घ. टमानयेत्यादौ घटादिपदानामपि तां सामग्रीमादाय भानस्य दुर्वारतया शाब्दबोधमात्रस्य शब्दविषयकत्वसिद्धिः ।
तदुक्तं स्वरूपमिति सूत्रे भाष्ये “नैतद्वक्तव्यं, किं कारणं, शब्दपूर्वको हार्थे सम्प्रत्ययः । अतश्च शब्दपूर्वः । योऽपि ह्यसौ नाम्नाSsहूयते नाम च तेन यदा नोपलब्धं तदा पृच्छति, किं भवानाहेति । शब्दपूर्वकश्चाऽर्थस्य सम्प्रत्ययः । इह शास्त्रे शब्दे सम्भवादर्थस्य निवृत्तिः” इति ।
तत्र शब्दपूर्वको हीत्यादिना शब्दवृत्तिज्ञानस्य पदाऽर्थोपस्थिस्यादावन्वयव्यतिरेकौ प्रदर्श्य शब्दपूर्वक इत्यादिग्रन्थेन प्रकारान्तरं प्रदर्श्यते । शब्दविशेषणक इत्यर्थः । तेनाऽर्थे असम्भवेऽर्थविशेषणतयोपस्थिते शब्दे कार्य्यमित्यर्थः । तथाचोक्तभाष्याच्छद्वतदर्थयोरु
(१) भेदबोधकं च 'पादिति' 'कुति' इत्यादिस्थलषु ध्वनिमयत्व - वर्णमयत्वादिरूपविरुद्ध धर्मसंबधित्व मेवेत्याद्यन्यत्र स्पष्टम् ।