________________
... नामार्थनिर्णयः।
२४९
शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा ॥ नोचेच्छोत्रादिभिः सिद्धोऽप्यसावों व भासते ॥२६॥ - यद्यनुकार्याऽनुकरणयोर्भेदविवक्षा तदा शब्दोऽपि प्रातिपदिकाऽर्थः । यदि न भेदविवक्षा, तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद् भासते । अपितौ । उपस्थितत्वाद्भासत इसर्थः ।
___षोढाऽपीति* ॥ पूर्वोक्तपञ्चकसहितः शब्दोऽपीत्यर्थः ॥ कचिद्=अनुकरणस्थले । तच्चाऽनुकरणं द्विविधम् । ध्वनर्वर्णस्य च । तत्राद्यं, पटत्करोतीत्यादि । द्वितीय, भुवो खुगित्यादि ॥ *भेदविवक्षेति* ॥ पठदित्यादी ध्वनिमयस्ववर्णमायस्वाभ्यां, भुवो वुगि त्यादावर्थपदार्थकत्वशब्दपदार्थकत्वाभ्यां तद्विवक्षेत्यर्थः ॥ *श. ब्दोऽपि प्रातिपदिकाऽर्थ इति ॥ तथाच, "मती छः सूक्तसाम्नो. (पा० सू० ५ १२ । ५९ ) इति सूत्रे योऽसावाम्नायेऽस्यवामशब्दः प. ख्यते स छप्रकृतेरस्यवामीयेत्यादी पदार्थोऽत एव प्रातिपदिकत्याच्छसिद्धिरितीति भावः ॥ मूले, अर्थेऽ वभासते इति पाठे, अर्थे घटादिस्वरूपे अवभासते विशेषणतया विषयो भवतीत्यर्थः।
वस्तुतस्तु भूषणपालोचनयाऽसावर्थों व भासते इति पाठः । तत्र व शद्वः सादृश्ये । तथा च भेदपक्षे यथाऽनुकार्यरूपोऽर्थो वि. शेष्यतया शाब्दबोधे भासते तथाऽभेदपक्षानुकाOभिन्नाऽनुकरणशब्दोऽपीत्यर्थः। तत्राऽनुपस्थितस्य कथं भानमित्याकाङ्कायामुक्तं*श्रोत्रादिभिरिति* ॥ आदिना वृत्तिज्ञानतजन्यसंस्कारसङ्गह इति केचित् ।
वस्तुतस्तु लिप्याद्यनुसंहितस्य तस्य शाब्दे भानसम्पत्तये, * आदीति॥पदोपस्थितमेव शाब्दबोधे भासते इति त्वलार्वत्रिकमिति भावः । अत एव सारकृताऽर्थवद्भासते इति तद्विवृतम् । एतेनाऽभेदपक्षेऽनुकरणस्यार्थाभावेन तदंश भानवर्णनसम्भवदुक्तिकमित्याशङ्का समाहिता।
नन्वभेदपक्षेऽप्यनुकार्य्यस्य शाब्दे कथं भानम् । पदवृत्ति