________________
दर्पणसहिते वैयाकरणभूषणसारे
डदशमुच्चारयेत्यादौ क्षक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अ
ग्रहाच्च ।
अज्ञातायाश्च वृत्तेरनुपयोगाद्, गाङ्गमुच्चारय इति भाषा - शब्दानामनुकरणे (# ) साधुतासम्प्रतिपत्तेस्तेषां शक्त्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य षोढाऽपि कचित् प्रातिपदिकाऽर्थ इत्याह
૨૪૯
स्वास्मन्मत इत्यादि । एतत्तत्त्वमग्रे वक्ष्यते । तस्या असार्वत्रिकत्वमप्याह -*जबगडदशमिति । तत्र समुदायस्य कुत्राप्यशक्तत्वादि ति भावः ॥ *अग्रहादिति ॥ मन्मते तु तादृशसमुदायस्यैव तत्पदशक्यतयाऽनुपपत्तिरिति भावः ।
ननु तत्र समुदायस्याशक्तत्वेऽपि तद्धटकजकारादिवर्णानामेकाक्षरकोशादी जैत्रादौ शक्तिप्रतिपादनात्तत्तदर्थवाचकत्वरूपलक्षणा. यास्तत्र नाऽनुपपत्तिरत आह-*अशाताया इति ॥ गङ्गापदस्य व स्तुतः स्वशक्यप्रवाहसामीप्यरूपसम्बन्धस्याग्रहे लक्ष्यार्थबोधस्यानुदयेन शाताया एव तस्याः पदार्थोपस्थित्यौपयिकत्वेन प्रकृते तदग्रहादुक्तानुपपत्तिस्तदवस्थैवेति भावः ।
•·
**
ननु शाद्वबोधाव्यवहितप्राक्काले तादृशवृत्तिग्रहासत्त्वेऽपि यदा कदाचिज्जाततादृशवृत्तिग्रहादिनोद्बुद्धसंस्कारेण पदाऽर्थोपस्थितिद्वारा तादृशशाब्दबोधांपपत्तिः सुकरेत्यत आह *गाङ्गमिति ॥ गोशब्दाद्यनुकरणे साधुत्वस्य सर्वैरेवाऽभ्युपगमादित्यर्थः ॥ *परनय इति ॥ परो नैयायिकस्तन्मते, तेषां शक्त्यभावेन तदूर्घटितलक्षणाया अप्यऽप्रसरावृत्तिमत्वात्मकार्थवत्त्वनिबन्धनप्रातिपदिकत्वाधनुपपत्तिरिति भावः ॥
णायां च अनादिताप्तर्यस्यापेक्षणान्निरूढलक्षणायाः शक्तितुल्यत्वमेव । अपि च तस्याः शक्तिभिन्नत्वस्वीकारेऽपि न सर्वसंग्राहकत्वमि त्यभिप्रायेण लक्षणाऽसम्भवस्थलमाह-जबगडेति ।
(*) ॠलसूत्रभाष्ये भाष्यकारेण स्फुटतरमुपपादितं साधुत्वम तत्तत एवावगंतव्यमिति ।