________________
___ नामार्थनिर्णयः।
२४७
दौ व्यक्तम् ॥ २५॥
शब्दस्तावच्छाब्दबोधे भासते । न सोऽस्ति प्रत्ययो लोके यः शब्दाऽनुगमाहते ॥ अनुविद्धमिव ज्ञानं सर्व शब्देन भासते । इत्याघभियुक्तोक्तेः ॥
विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवेन विना शद्धविषयं शाब्दबोधासङ्गतिश्चेति सोऽपि प्रातिपदिकार्थः । नच लक्ष. णया निर्वाहः । निरूढलक्षणायाः शक्त्यनतिरेकात्(१) जबग
घटमानयेत्यादिशाब्दबोधे घटादिशब्दस्य भाने प्रमाणाभावे. न तस्य प्रातिपदिकाऽर्थत्वसाधनमनुचितमित्याशङ्कां परिहरति *शब्दस्तावदिति* ॥ तत्र हरिवाक्यं प्रमाणयति-*न सोऽस्ती. ति* ॥ प्रत्ययः-शाब्दबोधात्मकः । *शद्वाऽनुगमादिति* ॥ श. द्वविषयकत्वादित्यर्थः ॥ * अनुविद्धामिति* ॥ विशिष्टमित्यर्थः । अनुव्यवसायो यथाऽर्थन विशिष्टज्ञानं विषियीकरोति तथा शहेन विशिष्टमपत्यिर्थः । वैशिष्टयं चाऽर्थद्वारकं बोध्यम् । घटपदजन्यबोधाऽनन्तरं घटं शाब्दयामीत्येवाऽनुव्यवसायान्न कलशं कुम्भं वे. त्यत एव "उदति सविता ताम्र" इत्यादौ न पौनरुक्त्यम् । तत्पदाऽ. नुपादाने उदयाऽस्तयोः शाब्दबोधे ऐकरूप्याऽनिर्वाहादिति भावः।
ननु तावताऽपि शब्दभानं सिद्धं, न विशेष्यत्वेनेति कथं शब्द. स्य शब्दाऽर्धत्वसिद्धिरत आह *धिष्णुमिति* ॥ अर्थाच्चारणास. म्भवेनेति वदता लक्षणावसरोऽपि सूचितः ॥ *असङ्गतिरिति* ॥ अनुपपत्तिरित्यर्थः । सोऽपि-शब्दोपि ॥ *प्रातिपदिकार्थ इति । प्रकारान्तरेणोपस्थितस्य विशेष्यत्वाऽसम्भवादिति भावः ॥ लक्ष. णयोः स्ववाच्यवाचकत्वसम्बन्धरूपयोः ॥ *निर्वाह इति* ॥ ताव. ताऽपि पदवाच्यत्वासिद्धेरिति भावः ॥ *निरूढेति ॥ *निरूढत्वं च लक्षणायामनादितात्पर्यग्रहाऽधीनत्वम् । अनादित्वं च तत्र स्व. जन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवस्वम् । शक्त्यनतिरेकादित्य
(१) शक्त्यनतिरेकादिति । शक्तितुल्यत्वादित्यर्थः। शक्तौ लक्ष