SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे द्योतिका वाचिका वा स्युद्वित्वादीनां विभक्तयः ॥ इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् ॥ शास्त्र इति बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम् । प्राधान्येन तु सरूपसूत्रा २४६ ख्याया अनभिधानात् प्राप्तां द्वितीयां वारयितुं तदवसरः । सति तस्मिन्ननभिहितकर्मगतत्वाभावान्न द्वितीयादिप्रसङ्गः । संख्यापि यदि प्रातिपदिकाऽर्थस्तदेोक्तवाक्याऽर्थाऽसम्भवात् सूत्रवैयर्थ्यमेव । नन्वनभिहित सूत्राऽभावे, भीष्मं कटं करोतीत्यादौ भीष्मादिपदादू द्वितीयाद्यनुपपत्तिः । विशिष्टस्यैव कटादेः क्रिययेप्सिततमत्वात् प्रातिपदिकार्थमात्रे प्रथमाप्रसङ्गात् । तत्सूत्रपक्षे त्वभिधानस्य कृदादिभिः परिगणनात् कटप्रकृतिद्वितीययाऽभिहितेऽपि तस्मिन् भीष्मादिपदेभ्यां द्वितीयादिविभक्तेः सूपपादत्वादिति चेन्न । विशिष्टस्य विधित्सायां धर्मिमात्रेण तोषाऽभावाद्धर्माणामपीप्सिततमत्वात् कर्मत्वम् । तस्य चान्यवाचकपदोत्तरद्वितीययानभि• धानात् । कृतः कट इत्यादौ तु प्रत्ययस्य धातूत्तरवर्त्तित्वेन तेन प्रा. तिपदिकार्थविशेषनिष्ठ कर्मत्वस्यानभिधानादविशेषाद्धर्मधर्मिनिष्ठतदभिधानमिति भीष्मादिविशेषणवाचकपदभ्यः प्रथमोपपत्तिरिति न काऽपि तदनारम्भेऽनुपपत्तिः । तदुक्तं भाध्ये "कटोऽपि कर्म भीमादयोऽपि " इति तदाऽस्तु कारकमपि प्रातिपदिकाऽर्थः । अस्मि· नपि पक्षे कारकस्य प्रकृत्यर्थव्यक्तिविशेषणतैव विभक्तिद्योत्यत्वादिति केचित् । नचैवं प्रातिपदिकाऽर्थप्रकारकबोधे सुब्जन्योपस्थितेर्हेतुत्वं वि. लीयेतेति वाच्यम् । इष्टत्वात् । एतत्कल्पे जातिलिङ्गसंख्याकरि कविशिष्टद्रव्यस्य प्रातिपदिकाद् बोधेनोक्त हेतुहेतुमद्भावस्य गगनकुसुमायमानत्वाद् विशेष्यतैव तु कारकस्योचिताऽनुभवात् क्रियान्वयानुरोधाश्चेति पञ्चकपक्षस्योपपत्तिरिति ॥ *बहुषु स्थलेष्वि ति* ॥ भाष्याद्याकरग्रन्थेष्वित्यर्थः । तत्र पञ्चकचतुष्कपक्षौ तत्रोपपदमित्यत्र कैयटेनोपन्यस्तौ त्रिकमिति पक्षस्तु वृत्तिकारेण ॥ *प्राधान्येनेति* ॥ तत्र सर्वेषामेव पक्षाणां भाष्यकृतोपन्यासादिति भा वः । सूत्रादावित्यादिनाऽनभिहितादिसूत्रसंग्रहः ॥ २५ ॥
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy