________________
नामार्थनिर्णयः ।
वम् । विशिष्टविषयको पस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमकाऽभावात् साम्यमिति तु न । भवन्मते यत्र योग्यताज्ञानघटोपस्थित्येकत्वापस्थितीनां तिसृणां विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावषट्कं तत्र मन्मते योग्यताज्ञाने विशिष्टविषयको पस्थितेः प्रत्येकं विशिष्टोभयरूपेण वैशिष्ट्य निवेश्यं द्वयं प्रत्येकं तादृशरूपावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टयं निवेश्य च द्वयमिति चतुष्टयमिति लाघवात् । अतिप्रः सङ्गपरिहारस्तु तत्तत्संख्याबोधे तत्तद्वचनसमभिव्याहारस्य हेतुत्वकल्पनात् ।
एवं कारकं विभक्त्यर्थ इति कल्पे तत्तत्कारकबोधे स्वोत्तरततद्विभक्तिसमभिव्याहारस्य हेतुत्वकल्पनात् स बोध्यः । स चाऽम् घट इत्यतो बोधवारणाय वाचकतावादिनाप्यावश्यकः । एवं रीत्योपसर्गाणामपि द्योतकत्वं बोध्यमिति पक्षद्वयेऽपि हरिसम्मतिमाह द्योतिका वाचिका वेति ॥
२४५
यद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः ।
इति त्वस्योत्तरार्द्धम् । घट इत्याद्याकारकाऽनुपूर्व्यवच्छिन्नविभक्त्यन्तसमुदायो वैकत्वादिविशिष्टघटादिवाचक इति तदर्थः । पद स्फोटमवलम्ब्य चेदम् । नामाऽर्थधात्वर्थयोः साक्षादभेदाऽतिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वादभिधानानाभिधानव्यवस्थानुपपत्तेश्च
कारकविभक्त्यर्थः ।
यदि च नामाऽर्थधात्वर्थयोर्भेदेन परस्पराऽन्वयापादनं, तण्डुलकर्मक पाकविशेष्यकबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्यादावानुपूर्वीविशेषज्ञानस्य हेतुत्वकल्पनयैव निरसितुं शक्यम् । अनभिहिताऽधिकारस्यापि, संख्या विभक्त्यर्थ इति पक्ष एवोपयो गस्तत्पक्षे "कर्मणिद्वितीया" ( पा० सू० २ । ३ । २ ) " ह्येकयोः " ( पा० सू० २ । २ । २२ ) इत्यादीनामेकवाक्यतयैव प्रवृत्तेस्तत्र वि शेष्यविशेषणभावे कामचारात् । एकस्य यत्कर्म, कर्मणि यदेकत्वमिति द्विधा वाक्याऽर्थसम्पत्तिः । प्रथमकल्पे द्वितीयादीनां तिङादीनां च कर्मादिवाचकतयाऽन्यतरेणाभिधानेऽन्यतरस्य गतार्थत्वादनभिहित सुत्रमफलम् । द्वितीये तु कृता कर्मणोऽभिधानेऽपि तद्वतसं
1