________________
२४४
दर्पणसहिते वैयाकरणभूषणसारे व्याकरणान्तरप्रणेतृपुरुषान्तरस्यापि पाणिनिसङ्केततुल्यसङ्केतसम्ब न्धेन एकवचनादिपदवत्त्वस्य 'डित्थादिपदात् स्वौजसादिबोद्धव्य' इत्याकारकपुरुषविशेषीयसङ्कतसम्बन्धेन डित्थादिपदवत्वस्य घा विनिगमनाविरहेण शक्तताऽवच्छेदकत्वाऽऽपत्तेरिति चेन्न ।
सुत्वाऽम्त्वादिनैवैकवचनस्य शक्यत्वाभ्युपगमेनोक्तदोषाऽनवकाशात् । कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशाश्च न प. रस्परजन्योपस्थितौ व्यभिचारः । न च दधि मध्वित्यादौ व्यभिचा. रः। तत्र लुप्तविभक्त्यनुसन्धानेनैव बोधाभ्युपगमात् । कथमन्यथा द्योलकतावादिमतेऽपि केवलप्रातिपदिकात् तदुपपत्ति?तकस्यैवा. ऽभावात् ।
नचाऽनेकसुत्वादीनां शक्तत्वाऽवच्छेदकत्वे गौरवात् प्रातिपदिकत्वस्यैकस्य तत्त्वमुचितं, लाघवादिति शङ्ख्यम् । प्रातिपदिकत्वस्याऽप्यनुगतस्य दुर्वचत्वात्। तदज्ञानेऽप्येकत्वादिबोधस्याऽनुभवसिद्धत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे तु विभक्तरपि वाचकतासिद्धेः। एकत्वाद्युपस्थितेः प्राग्वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वात् तदनुरोधेन तत्कल्पने गौरवाच्च । पदार्थयोर्विशेष्याविशेषणभावेनाऽन्वये भित्रपदजन्योपस्थितस्तत्र तयैकप्रकृत्युपस्थाप्यघटैकत्वाद्यास्तद. भावेन परस्परमनन्वयापत्तिश्चेति स्वादीनां सङ्ख्यादिवाचकत्वमेवे. ति भावः॥
द्योतकतावादिनां पुनरयमाशयः । न प्रकृतीनां घटैकत्वाद्योर्विशकलितयोः शक्तियेनोक्तदृषणाऽवकाशः स्यात, किन्त्वेकत्वविशिष्ट घटादौ पृथक्शक्त्यनभ्युपगमेनाऽन्वयस्यैवाऽभावात् । अनन्तप्र. कृतीनामेकत्वादिशक्तताकल्पनगौरवस्याऽप्यभावाश्च । घटपदस्यैकत्वं शक्तिभ्रमदशायां घटः प्रमेय इत्यादिवाक्यादेकत्वं प्रमेयमिति बोधस्य सर्वसिद्धतया तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटा. दिपदजन्यैकत्वाद्युपस्थितेहेतुताया आवश्यकत्वाच्च।
किश्व विभक्तेः संख्यावाचकत्वमते समानविषयकाऽनुमितिसा. मग्रीप्रतिबन्धकतायां प्रातिपदिकजन्यघटाघुपस्थितिः स्वादिजन्यैकत्वाद्युपस्थितिश्च निवेश्या । तथाच तयोर्विशण्यविशेषणभावे विनिगमनाविरहेण प्रतिबन्ध्यप्रतिबन्धकभावबाहुल्यम् । मन्मते त. दुभयस्थलीयैकैकविशिष्टविषयकोपस्थितिस्तत्र निवेश्येति लाघः