________________
नामार्थनिर्णयः ।
बोधात प्रकृतेरेव वाचकत्वं कल्प्यते ( * ) । लिङ्डानुशासनस्य प्रकृतेरेव दर्शनाच्च । अत एवैषु पक्षेषुन निर्बन्धः । प्रययस्यैव वाचकताया युक्तत्वात् ।
२४३
बोधादित्यर्थः । तथाच व्यतिरेकव्यभिचारेणान्यलभ्यत्वाच्च तदर्थत्वाऽभावान्नामाऽर्थत्वमेव तेषामावश्यकमिति भावः । वक्ष्यमाणयु. क्त्या सङ्ख्याकारकयोः प्रत्ययार्थत्वेऽपि लिङ्गस्य प्रकृत्यर्थत्वमेव यु. क्तमित्याशयेनाह - * लिङ्गति । अत एवेति । प्रकृतिप्रत्यययोरन्य. तरस्य वाचकत्वे युक्तिसाम्यादेवेत्यर्थः ॥ *निर्बन्ध इति । इदमेव मतं मुख्यमित्यभिनिवेश इत्यर्थः । तदेवाह * प्रत्ययस्यैवेति । *युक्तत्वादिति । अनन्तानां शक्तत्व कल्पनापेक्षया कतिपयस्वादीनामेव तत्कल्पने लाघवादिति भावः ॥
कचित्त टाबादिकं विनापि वागादिशब्देभ्यः स्त्रीत्वस्याऽव्युत्प तिपक्षे रामज्ञानादिशब्देभ्यः पुन्नपुंसकत्वयोर्बोधस्य सार्वजनीनाऽनुभवसिद्धत्वाल्लिङ्गत्वं प्रातिपदिकाऽर्थमेव । लुप्तविभक्तिस्मरणादपि बोधाऽङ्गीकारेण सङ्ख्याकारकयोर्विभक्तिवाच्यतैव । उक्तश्चस्वार्थी द्रव्यं च लिङ्गं च सङ्ख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषाञ्चिदग्रिमा ॥ इति । अग्रिमा लिङ्गान्ता इत्याहुः । नन्वेकवचनत्वादेरनुगतस्य दुर्वचतया कथं तेन रूपेण स्वादीनामेकत्वादिवाचकत्वम् । तथाहि । न तावदेकत्वादिवाचकत्वं तत् । वाचकतायाः शक्ततारूपत्वेनात्माश्रयात् । बोधकतारूपत्वे तु द्विवचनादीनामपि शक्तिभ्रमेणैकत्वादिबोधकतयातिप्रसङ्गात् । बोधकत्वं शक्तिरिति मते आत्माश्रयस्य दुर्वारत्वाच्च । नाप्येकवचनत्वादिकं जातिः । सुत्वादिना साङ्कर्य्यात् । न च पाणिनिसङ्केतसम्बन्धेनै. कवचनादिपदवत्वं तत् । तादृशसङ्केतस्य संकेतत्वेन सम्बन्धवे कस्यचिदेकवचनादिपदादौजसादिबोद्धव्य इत्याकारकलङ्कतस्याSपि सम्भवेनाऽतिप्रसङ्गतादवस्थ्यात् । पाणिनिसङ्केतत्वेन तत्त्वे तु ( * ) एवंच अनन्तशक्तिकल्पनं फलमुखत्वान्न दोषायेतिभावः ।