SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ૨૪ર दर्पणसहिते वैयाकरणभूषणसारे ., चतुष्कम् ॥ संख्यासहितं त्रिकमित्यर्थः ॥ पञ्चकम् ॥ का. रकसहितं चतुष्कमित्यर्थः ॥ .. 'नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तदवाच्यं, तत एव लि. गादीनामुपस्थितौ प्रकृतिवाच्यत्वे मानाभावाच्चेति (१)चेत् । सत्यम् । प्रत्ययवर्जिते दधि पश्यतीत्यादौ प्रत्ययमजानतोऽपि अथ लिङ्गे शक्तिग्रहविषयताया अभावेन प्रातिपादकाऽर्थत्वाभावात्, त्रिकमिति पक्षोऽनुपपन्न इति चन्न । "स्वमोनपुंसकाद्” ( पा० सू० ७।१ । ८३ ) इत्यादिसूत्रप्रामाण्येन पुंल्लिङ्गादिविशिष्टोऽयं घटो घटपदवाच्य इत्याकारकशक्तिग्रहाऽभ्युपगमेन सामञ्जस्यात् । शब्द निष्ठमेव लिङ्गं नत्वादिप्रवृत्तौ निमित्तमिति मते शब्दाऽर्थयोरभेदे लिङ्गस्य साक्षादितरथा स्वाश्रयवाच्यत्वसम्बन्धेनाऽर्थाशे प्रकारका त्वाद्धर्मिताऽवच्छेदकत्वेन धर्मिताऽवच्छेदकसमानाधिकरणत्वेन शक्तिग्रहविषयताया नियामकत्वस्य फलबलेन कल्पनात् । वस्तुतस्तु पारिभाषिकलिङ्गमप्यर्थ एव स्वीकर्तुमुचितम् । - लिङ्गशब्द इत्यादौ पुंल्लिङ्गाऽऽदिशब्दा अर्शआद्यजन्ताः । आत्मनि स. र्वस्याध्यस्तत्वेन परंपरया तत्रापि स्त्यानादिसत्त्वात् "आत्मा ब्रह्म" इत्यादिप्रयोगोपपत्तिः । स्त्यानं तिरोभावोऽपचय इति यावत् । उप. चयादिविवक्षाया एव प्रयोगनियामकत्वेन तेषामेकत्र विरोधेऽपि क्ष. त्यभावात् । अत एव,"सामान्ये नपुंसकम्(वा०)" इति तत्र तत्रोक्तं सं. गच्छते । उत्कर्षापकर्षसत्त्वेऽपि तदविवक्षायामिति तदर्थ इत्याद्य. ऽन्यतोऽवधार्यम् ॥ लिङ्गादित्रयस्य नामार्थत्वं साधयितुं शङ्कते * नन्विति*। *अन्व. यव्यतिरेकाभ्यामिति* I टाबादिसमभिव्याहारे अश्वादिपदात् स्त्री. त्वबोधादभावे च तदबोधादेवंरूपाभ्यामित्यर्थः। एवमन्यात्राऽप्यूह्यम् । तथाच ताभ्यां लिङ्गादेः प्रत्ययार्थत्वाऽवधारणान्न लिङ्गादि. त्रिकस्य प्रकृत्यर्थत्वमित्यर्थः । दधि पश्यतीत्यादावित्यादिना 'अयं याति' 'इयमायाति' इत्यादिपरिग्रहः । *बोधादिति* । कर्मत्वादि... (१) अनन्तप्रकृतिषु शक्तिकल्पनमपि दोषः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy