SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४१ नामार्थनिर्णयः। तत्र छागस्येति छाग्यापसम्भावितमिति भवति ततः पुंस्त्वनिर्णय इति विस्तरेण प्रपश्चितं भूषणे । न्त्रवर्णादत्र पुम्पशोर्यागाऽङ्गत्वनिर्णय इति भावः ॥ *तत्रेति ॥ म. न्त्रवणे इत्यर्थः ॥ *असम्भावितमिति* ॥ छागशब्दस्य व्यक्तवादि. वन्नित्यलिङ्गत्वाभावादिति भावः ॥ *प्रपश्चितामिति* ॥ लौकिकलि. मेव नामाऽर्थः । तच्चावयवविशेषसंस्थानरूपम् । दारानित्यादी पुंस्त्वारोपेणैव तत्प्रयुक्तकार्यम् । “रात्राहाहाः पुंसि" (पा० सु०२। ४।२९) इत्यादिलिङ्गानुशासनस्यैवोक्ताऽर्थे मानत्वात् । अत एव, न पशुस्त्रिया यागमिति । अथवा स्त्रीत्वादिर्जातिरेव । तिस्रो जातय एवैताः केषाश्चित् समवस्थिताः। अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ इत्यादि तत्रोक्तमिति । परे तु स्तनकेशवती नारी लोमशः पुरुषः स्मृतः । एतयोरन्तरं यश्च तदभावे नपुंसकम् ॥ इति स्मृत्युक्तलक्षणलक्षितलिङ्गस्याऽसार्वत्रिकत्वेन दारानियादी नत्वाऽनापत्या, स्त्रियामिति सूत्रे "अवश्यं कश्चित् स्वकृतान्त आस्थेयः"इत्यादिना सार्वत्रिकगुणाऽवस्थारूपपारिभाषिकलिङ्गस्य शा. स्त्रीयकार्योपयोगिनो भाष्यकृताऽभ्युपगमेऽपि गुरुसंज्ञाविज्ञानानत्वा. दिशास्त्रप्रवृत्तौ लौकिकलिङ्गस्याप्याश्रयणं पुमादिसंबानां सङ्खन्यासंज्ञाया इवाधिकसंग्रहार्थ प्रवृत्तत्वेऽपि मतसिद्धार्थनिरासार्थमप्रवृ. तेः । अत एक, आविर्भावस्तिरोभावस्थितिश्चेत्यप्यपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः॥ इत्यत्रापि नाऽलोकिकलिङ्गमपि समुच्चितवान् हरिः । तत्र सति सम्भवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वविशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिर्न केवल शास्त्रीये, नाऽपि लौकिके। असम्भवे तु शास्त्रीय एव । अत एव, पशुना यजेतेत्यादौ पशुखिया कृते यागे वैगुण्यम् । तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादित्याहुः ॥ ३१
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy