________________
२४० दर्पणसहिते वैयाकरणभूषणसारे शब्दस्य नित्यस्त्रीलिङ्गत्वेन तथा सम्भवेऽपि पशुशब्दस्य नि. त्यपुंल्लिङ्गत्वे प्रमाणाभावात् । ___"पश्वाऽनतायुं गुहा चरन्तं" "पश्वे नृभ्यो यथा गवे" इत्यादिवेदे दर्शनाच्च ॥ मीमांसायां चतुर्थे, "पशुना यजेत" इत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वान्नाऽनेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाच्च ।।
वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणेन निर्णीतत्वाद् वेदभाष्येऽपि “जसादिषु छन्दसि वा व. चनम्" इति नाभावाऽभाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनि
यात् । प्रकृते, “छागो वा मन्त्रवर्णात्"(*)इति न्यायेनैव निर्णयः । मन्त्रवणे हि, “छागस्य वपाया मेदस" इति श्रूयते ।
स्याऽपि दर्शनेन न तस्य व्यक्त्यादिशब्दसाम्यमिति भावः । स्वो. केऽर्थे मीमांसकसम्मतिमाह *मीमांसायामिति* ॥ वक्ष्यमाणाs. स्वरसादाह *वस्तुनस्त्विति ॥ ननु उप्रत्ययान्तानां नित्यपुंस्त्वे पश्वेत्यादिस्त्रीलिङ्गप्रयोगाऽनुपपत्तिरत आह ॥ *वेदभष्येऽपी. ति* ॥ तथाच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पशुशब्दोक्तलिङ्गस्यापि स्त्रीपुंससाधारण्यान तत्स्वार्थपरिच्छेकत्वमिति भावः।
ननु कथं तर्हि पुम्पशोरेव यागाङ्गत्वनिर्णयोऽत आह *छागोवे. ति॥न्यायेनैवेत्येवकारेण लिङ्गस्याऽर्थपरिच्छेदकस्यव्युदासः। यथा, "सारस्वतौ मेषौ" इत्यत्र तद्धितप्रकृतिशब्दः स्त्रीलिङ्गः पुंल्लिङ्गो वेति सन्देहे,“सन्दिग्धे वाक्यशेषात्" ( मी० सू०१।४।१९।२९) इतिन्याये. न, "तद्वामदेव्यमिथुनम्" इत्यर्थवादाद्वयोरेवैकशेषेण ग्रहणं तद्वन्म
(*) तदभिप्रायस्तु "अग्नीषोमीयं पशुमालभेत" इत्यत्र पशुश. ब्देन नाश्वादिर्गृह्यते किन्तु अज एव, कुतः ? 'छागस्य वपायाः" इति मन्त्रवणे छागपदोपादानात् । एवं पशुरव न स्त्री, पुंस्त्वविशिष्टछाग. पदोपादानात् , इति । तदेतदाहमन्त्रवर्णेत्यादि ।