SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। २३९ तच्च लिङ्गमर्थपरिच्छेदकत्वेन (*)अन्वेतीति पश्वादिश. ब्दोक्तं पशुः स्त्रियां नास्तीति, पशुनेत्यादिविधिन छाग्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पश्चादिशब्दोक्तस्यापि साधारण्यं शङ्ग्यम् । व्यक्ति. .ननु शब्दनिष्ठोक्तालङ्गस्यैव स्त्रीपुंसादिव्यवहारोपयिकत्वे तस्य स्त्रीवाचकपशुशन्देऽपि सत्वात् पशुना यजेतेत्यत्र पशुत्रीकरणकया. गादप्यदृष्टसिद्धिः स्यात् तद्व्यात्तल्लिङ्गस्य व्यक्त्यादिशब्दोक्तलि. गवत् स्त्रीपुंसादिसाधारण्येनाऽर्थापरिच्छेदकत्वादत आह *तच्चे। ति* ॥ शब्दनिष्ठमवेत्यर्थः ।। *अथैति* ॥ अर्थमपि परिच्छिनत्ती. त्यर्थः । तदेवाह *पश्वादिशब्दोक्तमिति* ॥ लिङ्गमिति शेषः । य. दि स्त्रीपशुर्यागाङ्गत्वेन विवक्षितोऽभविष्यत्तदा, अस्त्रीविहितनामा. वं विभक्त्यन्ते न प्रयोक्ष्यत् । तदन्तपशुशब्दप्रयोगातु पुम्पशुरेव यागाङ्गामिति निर्णीयते इत्यर्थः। स्त्रीलिङ्गार्थकंपशुशब्दाद् आङो नास्त्रियाम्" (पा० सू०७।३।१२०) इति विहितनाभावस्य तृर्तायैकवचनेऽसम्भवन तदन्तपशुशब्दप्रयो. गात् तदर्थस्य पुंस्त्वाऽवगतेरिति भावः । ननु व्यक्त्यादिशब्दानामर्थनिष्ठलिङ्गानादरेण प्रवृत्तिवत्पशुशब्दस्य तथा प्रवृत्तौ बाधकामावा. दुक्तदोषो दुरपह्नव इत्याशय निराचष्टे *नचेति* ॥ व्यक्त्यादीत्या दिना वस्त्वादिपदसङ्ग्रहः । साधारण्यं स्वाश्रयवाच्यत्वसम्बन्धेन, स्त्रीपुंवृत्तित्वं नित्यस्त्रीलिङ्गत्वेनेति, "स्त्रियां क्तिन्"(पा० सू०३।३। ८४) इत्यनुशासनादिति भावः । ननु पशुना यजेतेति वैदिकप्रयोग एव तस्य नित्यपुंस्त्वे मानं स्यादन आह *पश्वेति ॥ तथाच वेदे पशुशब्दस्य स्त्रीलिङ्गत्व. (*) तद्विशेषणत्वेनेत्यर्थः । लिङ्गविशेषविशिष्टस्यैवार्थविशेष वाचकतया लिङ्गानुशासनशास्त्रसिद्धतया च स्वाश्रयवाच्यत्वस. म्बन्धेनार्थविशेषणत्वोपपत्तिः । एवं च पुंस्त्वविशिष्टपशोरेव वि. धानाच्छाग्या न तत्करणापत्तिः पुंलिङ्गस्य पशुशब्दस्य पुव्यक्तेरेव वाचकत्वमन्यथा पंरपरया तस्यार्थविशेषणत्वाभ्युपगमवयोपत्ते. रितिभावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy