________________
२३८. दर्पणसहिते वैयाकरणभूषणसारे
केषाश्चिदनेकलिङ्गत्वव्यवहारस्तु समानाऽनुपीकत्वेन शब्दानामभेदारोपात् ॥ ___ एवञ्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । व. स्तुपदे नपुंसकत्वमेवेति । सर्वत्रैवायं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारस्तटस्तटी तटमिति चोपपद्यते ।
अमादयैवेत्यर्थः ॥ *भिद्यन्ते इति * ॥ पुंस्त्वादिलिङ्गकेतरव्यावृत्ति विधेयकानुमित्युहेश्य भवन्तीत्यर्थः ॥
ननु लिङ्गस्योक्तावस्थारूपत्वे तासां परस्परविरुद्धानामेकत्राऽव. स्थानासम्भवेन केषुचिच्छब्देवनेकलिङ्गकत्वव्यवहारः किंनिबन्ध नोऽत आह-कषाश्चिदिति* ॥ तटादिशद्वानामित्यर्थः। ..
वस्तुतस्तेषां विरूद्धत्वेऽपिशब्दानां समानानुपीकत्वनिबन्धना. भेदाध्यासादनेकलिङ्गकत्वव्यवहारोपपत्तिरित्यर्थः। अर्थनिष्ठं, "स्त. नकेशवती नारी लोमशः पुरुषः स्मृतः" इत्यादिस्मृति लक्षितं लिङ्गं तु नाऽत्राश्रयितुं शक्यम् । दारानित्यादौ शस्प्रकृत्यर्थे तदभावन न. त्वाचनापत्तेः । तथाच भाष्यम् । “एकाऽर्थशद्वान्यत्वादृष्टं लिङ्गा. न्यत्वमवयवान्यत्वाच" इति । एकस्मिन्नर्थे "पुण्यस्तारकानक्षत्रम्". ति लिनानात्वदर्शनात, 'कुटीर!' इत्यादौ रेफस्याऽवयवस्योपजने. ऽपि लिङ्गभेददर्शनाच्चाऽन्यदेव शब्दनिष्ठं लिङ्गमिति तदर्थः । अ. थनिष्ठत्वे तु लिङ्गः शब्द इति सामानाधिकरण्यानुपपत्तिश्चेति भावः॥
॥+एवञ्चेति ॥ पारिभाषिकशदनिष्ठलिङ्गस्य व्यवहारौपयिकत्वे चेत्यर्थः॥ व्यवहार इति * ॥ अर्थनिष्ठस्य तस्य तन्नियामकत्वे तु स्त्रीव्यक्तिर्वस्तुपदाऽर्थपदाभ्यां न व्यक्तिविषया नैवं पुरुषादिरपि । व्यक्त्यादिशब्दैः स्तनकेशादिरूपलौकिकलिङ्गस्य खट्वादावभावेन तद्वाचकात् स्त्रीप्रत्ययाधनापत्तेश्चेति भावः॥ *तटस्तटीति ॥ अं थे लौकिकलिङ्गाभावेऽपि परस्पराऽसमानाधिकरणपारिभाषिकलिपंचत्वेन विभिन्नानां तटादिशब्दानां तत्तकार्यभावमुपपद्यते। त्यर्थः।