SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३७ नामार्थनिर्णयः। पक्षाद्विरोधपरिहारः पूर्ववत् ॥ त्रिकमिति ॥ जातिव्यक्तिलिङ्गा. नीत्यर्थः । (१)सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसक त्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छदानि ठं तत्तच्छन्दवाच्यं च तमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते । * पूर्वपक्षादिति । एकमिति पक्षादित्यर्थः। तत्पक्षे हि शाब्द. ज्ञानकारणतायां बोधांशे प्रकारितयावच्छेदकत्वं शक्तिरिति जातिरेव. शक्या । विशेष्यितयावच्छेदकत्वमिति मते केवलव्यक्तिरेव शक्ये. ति सिद्धान्तितम् । अत्र तु विषयितात्वेन प्रकारिताविशेष्यिते अनु. गंमय्य तत्र विषयितयाऽवच्छेदकत्वं शक्तिरित्युपगमाद् द्वयोरपि नामाऽर्थत्वसिद्धिरिति न तयोः . परस्परविरोधशङ्कति भावः । एतेषां मतानामाकरारूढत्वेऽपि व्यक्तिः पदार्थ इति पक्ष एव क्षोदक्षमः । प्रत्येकपदशक्तिनिर्णयस्त्वन्यतोऽवधार्यः ॥ _*लिङ्गानीति* । लिङ्गत्वं च प्राकृतगुणवतो धर्मविशेषः । तद्विशेषश्च नपुंसकत्वादीत्याशयेनाऽऽह-*सत्त्वति*। *साम्यावस्थे. ति* ॥ उपचयापचयराहित्येनौवस्थानमित्यर्थः। उपचयो वृद्धिः, अपचयस्तन्न्यूनत्वम् ॥ *तत्तच्छदनिष्ठमिति* । जातिगुणक्रियादिभेदभिन्नशब्दनिष्ठम् ॥ * तत्तच्छब्दवाच्यं चेति ॥ स्वाश्रयश. ब्दवाच्यं चेत्यर्थः । पुँल्लिङ्गः शब्द इति व्यवहारात, "तस्माच्छसो नः" (पा० सू०६।१।१०३) "स्वमोनपुंसकात्" (पा० सू० ७ । १। २३) इत्यादिसुत्रप्रामाण्याञ्चेति भावः ॥ *तमेवेति ॥ समा. नाऽनुपूर्वीकत्वेऽप्युपचयाद्यवस्थारूपं परस्परसमानाधिकरणं लि. (१) स्तनकेशवती नारी लोमशः पुरुषः स्मृतः। इत्यादिलौकिकस्त्रीस्वादिकं नैतच्छास्त्रीयप्रक्रियानिर्वाहकं-'गोधा' इत्यादिषु टाबाद्य. भावप्रसङ्गात् । तत्र स्तनकेशाभावात् । यद्यपि स्तनकेशब्दस्य भगव. खे, लोमशः पदस्य लिङ्गवत्वे च, लक्षणास्वीकारे नायं दोषः,तथापि दारानू इत्यत्र नत्वाभावप्रसङ्गेन भाष्यकारोक्तमेव लक्षणमदुष्टमिति तत् कथयति-सस्वेति।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy