SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे ऽवच्छेदिका जातिरकैवेति । तथाच घटत्वप्रकारक. १)विशिष्टबोधे घटत्वांशेऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुतेति कार्यकारणभाव इत्यादि प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह-द्विकमिति जातिव्यक्ती इत्यर्थः । पूर्व अवच्छेदकतायाः स्वरूपसम्बन्धरूपाया घटत्वाद्यात्मकत्वेऽप्यवच्छे. थाऽवच्छेदकभाव उपहिताऽनुपहितभेदात् समर्थनीयः।। एवमेवैकं व्यक्तिरिति पक्षोऽपि समर्थनीयः। तादृशज्ञाननिष्ठशा. ब्दबोधकारणतायां बोधांशे विशध्यतया व्यक्तेरवच्छेदकत्वात । एत. त्यक्षे चावच्छेद्यावच्छेदकभावस्य सामञ्जस्येनोपपत्तिर्गोत्वादिजात्या. ऽनुगमान तदानन्त्यमपि। शक्यतावच्छेदकप्रकारकव्यक्तिबोधे व्यक्ति शक्तिग्रहस्यैतत्कल्पे हेतुतया चलत्वादिना गवादिव्यक्तिबोधार्थ तत्प्रयोगस्याऽप्युपपत्तिश्चेति बोध्यम् ॥ ननु 'घटो घटपदबोध्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घट. स्वप्रकारकविशिष्टवुद्धेरिव जातित्वेन घटत्वविशिष्टबुद्धेरप्यापत्तिस्तत्कार्य्यतावच्छेदकाक्रान्तत्वादत आह-*तथाचेति* ॥ *घटत्वप्र. • कारकविशिष्टबोधे इति* ॥ स्वरूपतस्तत्प्रकारकबोध इत्यर्थः ॥ *का. र्यकारणभाव इति * ॥ तथाच 'जातिमान् घटः' इति बोधस्य घटत्वांशे जातित्वप्रकारकत्वेनोक्त शक्तिशानकार्यतावच्छेदकानाक्रान्तत्वेनोकापत्तेरसम्भवाद् घटत्वांशे जातित्वप्रकारकघटत्वविशिष्टबुद्धिं प्रति तु तदंशे जातित्वप्रकारकशक्तिज्ञानस्य हेतुत्वाऽन्तरं कल्पनीयमिति भावः। ननु तदंशेऽन्याप्रकारकत्वघटितधर्मस्यार्थसमाजग्रस्ततया कर्थ कार्यतावच्छेदकत्वमत आह-*प्रपञ्चितमिति* ॥ तथाच निरव. च्छिन्नप्रकारताकतद्विशिष्टबुद्धिं प्रति सावच्छिन्नतत्प्रकारकशक्तिशा. नस्य हेतुत्वकल्पानोक्तापत्तिरिति तत्रोक्तमित्यर्थः। *तदभिप्रेत्येति उक्तरीत्या विशिष्टस्य शक्यत्वमुपगम्येत्यर्थः । जातिव्यक्ती इति । विशेष्यविशेषणभावापन्ने ते इत्यर्थः॥ (१) घटत्वविशिष्टबोधे इति पाठः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy