SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। एकमित्यस्य चाऽयमभिप्रायः । शक्तिज्ञाने च विषयतया विषयकशाब्दबुद्धिहेतुत्वे व्यक्तिविषयतायाः कारणताऽवच्छेदक कोटावनिवेशेन लाघवात् । देशान्तरस्थव्यक्तिविशेष्यकबोधाऽनु. पपत्त्या समानविशेष्यकत्वेन कार्यकारणभावासम्भवेन समानप्रकार• कत्वेनैव कार्यकारणभावोपगमादिति चेत् । मैवम् व्यक्तिविषयतायाः कारणताऽवच्छेदककोटावनिवेशे व्य. कितशक्तिस्वीकारस्य वैयापत्तेन च तदस्वीकारे गोत्वप्रकारकश क्तिज्ञानत्वन हेतुत्वाऽसम्भवः । व्यक्ती शक्यभावेन तादृशशक्तिशा. नस्य भ्रमत्वादिति वाच्यम् । शक्तिर्हि न स्वरूपसती शाब्दबोधहे. तुरपभ्रंशादपि बोधोदयादगृहीतशक्तिकाच्छाब्दबोधापत्तेश्च, किन्तु शाता । तथाच यदंशे शक्तिशानहेतुस्तदेव शक्यमिति जातिवद् व्यक्तिरपि शक्यैव । एवं तवैशिष्टयमपि तथा। अन्यथा व्यक्तावेव शक्तिय॑क्तिशक्तिशाने जातेरप्रकारकत्वात् समानप्रकारत्वेन श. क्तिज्ञानपदार्थोपस्थितिशाब्दबुद्धीनां कार्यकारणभावादिति जाता. वपि शक्तिरुच्छिद्येत। नच यद्विषयकत्वेन शक्तिशानं कारणं तदवश्यं शक्यमिति नियमाज्जाती शक्तिः सेत्स्यतीति वाच्यम् । तर्हि व्यक्तिविषयक. त्वेन शक्तिज्ञानस्य हेतुतया व्यक्तिशक्तिस्वीकारस्यावश्यकत्वा. दुक्नेऽर्थे भाष्योपन्यसनं तु "कस्यचित् प्रधानभूतं, किश्चिद् गुणभूतम्" इत्युपसंहारभाष्यानालोचनमूलकमेवेत्यास्तां तावत । नन्ववमेकमिति पक्षस्य (१)निरालम्बनतापत्तिरत आह एकमित्यस्यचेति* | बोधकत्वं शक्तिरिति मते बोधकत्वज्ञानविषयबोधा. ऽशे प्रकारितयावच्छेदकत्वशक्तिरित्यर्थलाभात्तदाश्रयजातेरैक्याच्छन्दनिष्ठबोधकत्वस्यैव विनिगमनाविरहादनिष्ठबोध्यत्वस्याऽपि शक्तित्वमिति मतेऽप्यस्मात् पदादेतदर्थबोधो भवत्विति शक्तिशाननिष्ठशाब्दधीहेतुतायां प्रकारितयावच्छेदिकाया जातेरैक्याद्वा तत्प क्षोपपत्तिरित्यर्थः। तथाच ताशप्रकारितावच्छेदकतारूगया:शक्य. जातिमात्रनिष्ठतयाऽऽकृतिरेव पदार्थ इति पक्षः समर्थितो भवति। (१) 'विशिष्टस्य पदार्थतास्वीकारे' इति शेषः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy