________________
२३४
दर्पणसहिते वैयाकरणभूषणसारे
पस्थितानि नानैकत्वानि न व्रीहिष्वन्वीयन्त इति तु न सत् । सजातीयनिष्ठ भेदप्रतियोगितानवच्छेद के कत्वरूप सजातीयद्वितीय रहितत्वस्यैवैकवचनाऽर्थत्वेन तत्र तस्य बाधात् । संख्यारूपैकत्वस्य द्रव्यमाश्रसाधारण्येनाऽर्थत एव लाभादनुपयोगात्तस्यैकवचनार्थत्वा
भावाच ।
अत एव, "पशुना यजेतें" इत्यत्र तादृशैकत्वस्यैकवचनेन वित्रक्षितत्वान्नाSनेकपशुकरणकयागाददृष्टसिद्धिः । समभिव्याहृतपदार्थ: संसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकरूपेण साजात्यस्य विवक्षणाश्च नात्र घटोऽस्तीत्यादौ घरनिष्ठ भेदप्रतियोगिताऽनवच्छेद के कत्वाप्रसिद्धिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगिताऽनवच्छेद कैकत्वस्यैव तत्र बोधेन तस्योक्तरीत्या प्रसिद्धिसम्भवात् । एवञ्च व्यक्तिविशे
बोधाऽभ्युपगमे वाऽप्यनुपपत्तेरभावेन तस्य चैतद्विशेष्यकशक्ति. ग्रहमन्तरेणाऽसम्भवाद्गवादिपदानां जातिविशिष्टव्यक्तावेव शक्तिः । व्यक्तिमात्रविषयकस्य जातिमात्रविषयकस्य वा शक्तिज्ञानस्य जादुरुद्धरत्वादिति
तिविशिष्टव्यक्तिशाब्दबोधहेतुतायामुक्तदोषस्य
सारनिष्कर्षः ॥
अन्ये तु - " उभयोरुभयं पदाऽर्थ" इति भाष्याज्जातौ व्यक्तौ च गवादिपदानां शक्तिः । परन्तु व्यक्तिशाब्दबोधेऽपि जातिविषयकत्वेन जातिशक्तिज्ञानस्यैव हेतुता । व्यक्तिस्तु स्वरूपसत्युपयुज्यते । अशक्यस्यापि शाब्दे भानाऽभ्युपगमे गवादिपदादशक्य गवा दिव्यक्तेरिवाऽशक्यघटादीनामपि भानापत्या व्यक्तिशक्तिरावश्यकी । अयमेव कुब्जशक्तिवाद इति व्यवहियते । शाब्दबोध कारणतावच्छेदककोटौ व्यक्तिविषयकत्वस्यानिवेशात् । तथाच गोत्वप्रकारकशक्तिज्ञानं कारणं, न तु गोत्वविशिष्टविषयक गोपदशक्तिमती गौरित्याकारकम् । गोत्वमस्तीत्यादौ तादृशगोत्वप्रकारक शक्तिशानाभावान्न गोत्वविशिष्टबोधप्रसङ्ग इत्याहुः ।
तदप्यापातमनोरमम् । गोत्वविषयक गोपदशक्तिमती गौरित्याकारकशक्तिग्रहे कारणतावच्छेदककोटौ गोत्वविश्यकत्वस्य प्रवेशे गौरवात् ।
ननु माऽस्तु तद्विषयकत्वस्यावच्छेदककोटौ निवेशः । गोपदशक्तिमती गौरित्याकारकशक्तिग्रहस्य गोत्वप्रकारकत्वेन गोत्वविशिष्ट