________________
नामा
२३३
नामार्थनिर्णयः। भाष्याद विशिष्टं वाच्यम् ।
पातरमणीयैवेत्यभिप्रायवानाह *वस्तुतस्त्विति*। *विशिष्टमिति* । जातिविशिष्टा व्याक्तिर्व्यक्तिविशिष्टा जातिर्वेत्यर्थः । ___यद्यपि"आकृतिपदार्थस्य द्रव्यं न पदार्थो द्रव्यपदार्थकस्य चाक. तिने पदार्थ इत्युभयोरुभयं पदाऽर्थः" इति भाज्याद्विशकलितयोरेवाकतिव्यक्त्योः शक्तिग्रहविषयता लभ्यते। तथापि “कस्यचित् किञ्चिद्गुः णभृतं किञ्चित् प्रधानम्" इत्युत्तरभाष्यपर्यालोचनया तत एव विशिष्ट शक्त्यवधारणात् तथोपादानमविरुद्धम् । अन्यथा तृतीयोपा. तैकत्वकरणत्वयोरिव विशेष्यविशेषणभावानापन्नजातिव्यक्त्योः शक्यत्वे गोर्यद् गोत्वं व्यक्तिश्चेति समूहालम्बनबोधापत्तेः शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वनियमात। .
एवमेवाऽवयवसंयोगरूपाऽऽकृतौ । तथाच सूत्रितं गौतमेन,"जात्याकृतिव्यक्तयः पदार्थः" इति त्रिवेकैव शक्तिरिति बोधनाय च तत्रै. कवचनं । गुणभूतमिति भाष्यस्य च स्वारसिकतयतिशेषः जातेःक. दाचित् प्राधान्येन भानं तु तात्पर्यग्रहसापेक्षमिति तदाशयः । जातेः प्राधान्येऽपि द्रव्यसंख्यामादाय तत्र द्विवचनाद्युपपत्तिबोध्या। तदु. तं कैयटेन । “यथा भवत इत्यादौ क्रियाप्राधान्येऽपि साधनकृतो वचनभेद एवमाकृतिप्राधान्येऽपि द्रव्यसंख्याकृत इत्यदोष" इति । द्रव्यप्राधान्येऽपि क्वचिजातिसंख्यामादाय घचनं, ब्राह्मणं न हन्या. दित्यादौ यथा । जातेः प्राधान्ये च निरवच्छिन्नाया एव व्यक्तः प्र. कारताविशेष्यीभूतजात्या च तदनुगमः। न हि प्रकारीभूतमेवानु. गमकमिति नियम इति तत्कल्पपरिष्कारः।
वस्तुतस्तु जातिविशिष्टव्यक्तिरेव शक्या। गवादिपदादोविशि. ष्टगोत्वबोधस्याऽननुभवेनोक्तकल्पाऽसम्भवात् । अत एव तथैव व्याख्यातम् । जात्यतिरिक्तपदार्थस्य किश्चिद्धर्माऽवच्छिन्नत्वमिति नियमेन निरवच्छिन्नायास्तस्या जात्यंशे भानाऽयोगात । गोत्वस्याऽन्वयितावच्छेदकरूपेणाऽनुपस्थित्या तत्तत्कर्मत्वाऽऽधन्वयासम्म वाच्च । 'सम्पन्नो व्रीहिः' इत्यादौ तु स्वाश्रयप्रकृत्यर्थतावच्छेदकव. स्वसस्बन्धेन प्रकृत्यर्थव्यस्तावकत्वान्धयः। उक्तस्थले एकवचनो