________________
दर्पण खहिये वैयाकरणभूषणसारे
adi घट वाच्यं स्वाच्छक्यतावच्छेदकत्वात् । तथानाऽगृहीतविशेषणन्यायात् तदेव वाच्यमस्त्विति शङ्कयम् । अ कारणत्वेऽपि कारणतावच्छेदकत्ववद् अलक्ष्येऽपि लक्ष्यताव च्छेदकत्ववत्तथात्राऽपि सम्भवात् उक्तश्च :
आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् ।
२३०
अपिना, द्रव्याऽभिधानं व्याडिरिति संरूप सुत्रस्थभाष्यप्रामाः ण्यं समुच्चीयते । युक्तिमेवाह - * व्यवहारेणेति * (१) ॥
एतत्तत्वं शक्तिवादे वक्ष्यते । एतत्कल्पे पूर्वोक्तं शक्त्याऽऽनस्यशेषं समुद्धरति *सम्बन्धितावच्छेदकस्येति ॥ शक्तिग्रहे धम्मिता: वच्छेदकपदस्य लिङ्गसर्वनामनपुंसकत्वादुद्देश्य समर्पकत्वाद्वा न तस्वाऽनुपपत्तिः । तथाच सम्बन्धिताऽवच्छेद क जात्यनुगत कृतनाना-: व्यक्तिष्वेकधर्मावच्छिन्नाया एकस्या एव शक्तेरुपगमान्न तन्नानात्वप्रयुक्त गौरवमिति भावः ॥
*एवमिति* ॥ विशिष्टे शक्तित्वस्वीकारे इत्यर्थः । घटत्वादेर्घ: टादिनिष्ठशक्यतावच्छेदकत्वाभ्युपगम इति यावत ॥ तदेवघरस्वाद्येव वाच्यं = शक्यमित्यर्थः । शकयत्वे हेतूपन्यसनं । *न्यायादिति* ॥ *अकारणत्वेऽपीति ॥ दण्डत्वाऽऽदीनामन्यथासिद्धत्वेनाकारणrasपि तवानां प्रवाहाद्यसम्बन्धितया लक्ष्यत्वेऽपि च तत्र तन्निष्ठाऽवच्छेद्यतानिरूपित स्वरूप सम्बन्धाऽऽस्मिकाया विषयि-: ताविशेषाऽऽत्मकाया बावच्छेदकताया अभ्युपगमवदशक्यस्यापि घदत्वादेस्तादृशशक्यताऽवच्छेदकत्वसम्भवात् । शक्यत्वे सति श क्यविशेषणतापन्नस्य शक्यतावच्छेदकत्वमिति नियमे, मानामा: वादिति भावः ।
-
C
•
उकेऽर्थे सम्मतिमाह *उकश्चेति* *आनन्त्येऽपीति । भावानां व्यक्तीनां नानात्वादपरिच्छेद्यत्वेऽपि, एकम् = अनुगत
(१) व्यवहारेणेति । 'घटमानय' इति वाक्यप्रयोगानन्तरकालि कमध्यमवृद्धकर्तृकानयनरूपव्यवहारेण प्रथमतः व्युत्पल्ली बलस्य व्यक्तावेव शक्ति प्रहादित्यर्थः ।