________________
नामार्थनिर्णयः
२२९
." यद्वा, केवलव्यक्तिरेव(१)एकशब्दाऽर्थः । केवलव्यक्तिपक्ष एवाणग्रहणस्यैकोषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात् । युक्तं चैतत् । व्यवहारेण व्यक्तावेव तदग्रहणात् । सम्बन्धिता. वच्छेदकस्य जातक्याच्छक्तिरप्येकवेति न गौरवमपि ।
गोत्वादिपदानां तु गोत्वादिधर्मिवृत्तिधर्म एव शक्तिरिति न तत्र गोविशेष्यको बोधः । जातेराश्रयाऽवियोगेऽपि केवलायास्तस्या शद्ववाच्यत्वं नानुपपन्नम् । जलाऽऽदौ दृश्यमानस्य मुखस्य स्व. स्थानाऽवियोगेऽपि मुखादिपदबोध्यवत् । शक्यतावच्छेदकता तु जातिगतधर्मस्यैवेति ॥ - .' इदमपि मतं जात्या व्यक्त्याक्षेपे पर्यवस्यति । तश्च न चाऽपदा. ऽर्थे प्रत्ययान्वय इति दूषणग्रस्तम् । विनाऽपि सङ्केतविषयतां सामान्येन सम्बन्धनियमादर्थाऽध्याहारन्यायेनोपस्थिता व्यक्तिं पुनर्जातिविशिनष्टि । रूपादिज्ञानविषयाणां चक्षुरादीनां चक्षुषयामीति प्रती. त्या विषयांकरणवदित्यपि कचित् ॥
शक्यसम्बन्धरूपया लक्षणाया एकस्या लक्ष्यलक्षणतावच्छेदः कयोरसंभवेऽपि लक्ष्याऽर्थप्रतीतौ लक्ष्यताऽवच्छेदकभानवच्छक्यतावच्छेदके शक्त्यभावेऽपि तादृशकार्यकारणभावबलादेव गोत्वा. दिभाननिर्वाहे कृतं तत्र शक्तिकल्पनयेत्याशयनैकपदमन्यथा व्याच. टे-यद्वति ॥ व्यक्तिरंवत्यनेन जातिः । .. ननु सवर्णणग्रहणामित्यादिप्रामाण्यादस्तूक्तः पक्षः । व्यक्तिः । पदार्थ इत्यत्र तु किं मानमत आह-* केवलव्यक्तीति ॥ *एकशषस्य चेति ॥ जातिपक्षे एकनैव शब्देन द्वयोर्बहूनां वा प्रत्या. यनसम्भवात तदनर्थकं सद् व्यक्तिपक्षशापकमित्यर्थः । अणग्रहणस्य भाष्यकृता:प्रत्याख्यानात् सरूपसूत्रस्य च शास्त्रीयप्रक्रि. यामात्रोपयोगित्वस्याऽऽकर व्यवस्थापनात् कथमुक्ताऽर्थे । तयोर प्रामाण्यमत आह-*युक्तञ्चैतदिति * ॥ . सयुक्तिकमप्येतदित्यर्थः । :: (१) 'द्विद्धं सुबद्धं भवति' इति न्यायन 'एव' अंदमुपात्तम् । अन्यथा 'केवल' शद्वेनैव व्यावृत्तिसिद्धौ 'ए'व्यर्थ स्यादिति