________________
२२० दर्पणसहिते वैयाकरणभूषणसारे स्वशक्यगोत्वाऽऽश्रयत्वसम्बन्धरूपलक्षणयेत्यर्थः। तथाच पदवृत्तिजन्योपस्थितेरेव शाब्दबोधे हेतुतया व्यक्तेरशक्यत्वेऽपि लक्षणावृ: त्युपस्थितायां तस्यां नावधातादिकर्मत्वान्वयानुपपत्तिरिति भावः ।। • *एवञ्चति* ॥ लक्षणाऽभ्युपगमे चेत्यर्थः।तत्र-लक्षितव्यक्तौ ॥ *उ. पपद्यत इति * ॥ अन्यथा, प्रत्ययानामिति व्युत्पत्तेः स नोपपद्यतेति भावः । ननु व्यक्तिलक्षणाभ्युपगमे युगपवृत्तिद्वयविरोध इति सि. द्धान्तभङ्गः । गौरस्तीतिवाक्यादनुभूयमानव्यक्तिबोधानुपपत्तिश्च । लक्षणाबजिस्यान्वयानुपपत्तस्तत्राभावादत आह-*दिगिति* ॥ • तदर्थस्तु सति तात्पर्य गङ्गायां घोषमत्स्यौ स्त इत्यत्र वृत्तिद्वय. स्य सवरेवाभ्युपगमात्तादृशन्यायो, युगपच्छक्तिस्तात्पर्याऽविषय लक्षणा च नेत्येवंपर इति न तद्विरोधः । तात्पर्यानुपपत्तिसत्त्वाञ्च ने व्यक्तिलक्षणानुपपत्तिः तद्विरोधाभ्युपगमे तु जातिव्यक्त्योरऽभे. दपक्षमुपगम्य विभक्त्यर्थान्वय उपपाद्यः। तदुक्तम्- तेन तल्लक्षितव्यक्तः क्रियासम्बन्धचोदनात् । ... . . जातिव्यक्त्योरभेदो वा वाक्यार्थषु व्यवस्थितः॥ इति ।
वस्तुतस्तु जातिर्मिकशक्तिग्रहस्य जातिविशिष्टव्यक्तिशाब्दः बोधेहेतुत्वकल्पनान्न व्यक्तिभानानुपपत्ति प्यशक्यभानापत्तिस्तस्य तवैशिष्याभावादिति जातिशक्तिवादनिष्कर्षः । वक्ष्यते चाऽधिक. मुंपरिष्टात् ॥ __ अन्ये तु जातिशक्तिवादमित्थमुपपादयामासुः । माऽस्तु व्यक्ते. र्भानम् । आनयनादिक्रिया केवलायां जातावसम्भवन्ती व्यक्तिसाहि. त्येन निष्पाद्यते । समाहारे पाणिपादसाहित्येन वादनक्रियावत् । तंदुक्तं "तद्धितार्थ" (पा० सू०२।१५१) इति सूत्रे भाष्ये । “आकृ. तावालम्भनादीनां सम्भवो नास्तीति कृत्वा तत्सहचरिते द्रव्ये भ. विष्यति यथाऽग्निरानीयतामित्युक्ते केवलम्याग्नेरानयनासम्भवाद. चोदितमपि पात्रमानीयते । एतदेवाऽग्नेरानयनं यत्पात्रस्थस्य ! त. थाऽऽकृतावालम्भनादीनि चोद्यमानानि सामर्थ्यात् साहचर्याद् द्र. व्येऽभिनिविशन्ते । सर्व एवाऽकृतेयोगोऽन्तर्भावितद्रव्याया इति द्र. व्यद्वारकः सम्बन्धः सम्पद्यत" इति । साहचर्य सम्बधः। सरूपसू.
वे भाष्येऽपि स्फुटोऽयमर्थः। हरिरप्याह...: : व्यक्ती कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते । इति ॥