________________
- "नामार्थनिर्णय
॥ अथ नामार्थनिर्णयः ।। नामार्थानाह- एक द्विकं त्रिकं चाऽथ चतुष्कं पञ्चकं तथा ।।
नामाऽर्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ २५ ॥ एक जातिः । लाघवेन तस्या एव वाच्यत्वौचित्यात् । अ.
अत्र वदन्ति । शास्त्रस्य गौणे प्रवृत्त्यनभ्युपगमे स्थादीनां फ. लत्वेनाभिमते गत्यभावे धात्वर्थव्यापारजन्यत्वाभावेन तद्धरितमुः ख्याकर्मकत्वाभावात्ततो भावे कर्तरि च प्रत्ययानुपपत्तिरेवं वारय. तेः संयोगानुकूलव्यापाराभावानुकूलव्यापाराऽर्थकतायाः सर्वसम्मः, ततया तस्यापि मुख्यसकर्मकत्वाभावेन ततोऽपि कर्तरि कर्मणि च लकाराद्यनुपपंत्तिरतो गौणेऽपि शास्त्रविषयताऽवश्यमभ्युपेतव्येति न घटं जानातीत्यादीनां विषयत्वलक्षणायामप्यसाधुता।....
वस्तुतस्तु शक्तिः कारकमितिपक्षस्य तन्मतेऽतिसुप्सु व्यत्र स्थितत्वेन द्वितायाया विषयत्वान्वय्याधेयत्वबोधकत्वेऽपि न क्षति। ताशस्थले विषयरूपफलस्य धास्वर्थपरतायाः प्रागुपपादनात् तन्मतेऽप्युक्तनियमविरोधस्य निषेधविषयतायाश्चाऽसम्भवादित्यलम्॥२४॥ __ इति श्रीभूषणसारदर्पणे सुवर्थनिर्णयः ॥ ३ ॥
क्रमप्राप्त नामार्थनिरूपणमित्याशयेनाह-*नामार्थानिति* ॥ *जा. तिरिति । तत्तत्पदार्थाऽसाधारणो धर्म इत्यर्थः । तेनाऽभावत्वाका. शत्वादीनां नित्याऽनेकसमवेतत्वरूपजातिवाभावेऽपि न क्षतिः। ए. तस्यैव शास्त्रे स्वार्थपदेन व्यवहारः । जातेः पदार्थत्वे मानं तु-"जा. त्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" (पा० सू०१।२।५९) इति सूत्रे, "सवर्णेणग्रहणमपरिभाष्यमाकृतिग्रहणात् सिद्धम्" इति चार्तिकम् । “आकृति वाजप्यायनः" इति सरूपसूत्रस्थं मायं च । युक्तिमप्याह-* लाघवेनेति * ॥ एकाश्रयकशक्तरेकस्या एव सम्भवादिति भावः।
ननु शक्तिग्राहकशिरोमणिना व्यवहारण व्यक्तावेव तत्परिकरी