________________
२२४ दर्पणसहिते वैयाकरणभूषणसारे या लक्षणाऽपि विभक्तावप्रयोजिकैव । अन एव, विभक्तौ न लक्षणेत्यादिनैयायिकद्धानां व्यवहार इंति(?)दिक् ॥ २४ ॥
इति श्रीवैयाकरणभूषणसारे सुवर्थनिर्णयः ॥ ३ ॥
दौ । संख्शवदर्थयोग्यप्रातिपदिकाच्चेदेकवचनं तदा एकत्वे एव न द्वित्वादावित्याकारकः । द्वितीयस्तु-प्रातिपदिकाच्चद् द्वितीया. कर्मण्यवेत्याकारकः । अर्थनियमस्तु-कर्थियोग्यप्रातिपदिकाश्चत् कर्मणि विभक्तिस्तदा द्वितीयैव । कर्मादिरहिते तद्योग्यप्रातिप. दिकार्थे प्रातिपदिकात्प्रथमवेत्याकारक इति ॥ सिद्धत्यस्यैक वाक्यताबलेनत्यादिः । तथाच विषयत्वस्य निरुक्तमत्वाऽनात्मक. त्वेन तत्र द्वितीयादेः शास्त्रेणाविधानात् तदर्थतात्पर्येण तदुचा. रणस्थाऽतत्वादित्यर्थः ॥ *अत एवति* ॥ विभक्तौ लक्षणाया अप्रयोजकत्वादेवेत्यर्थः ।
ननु व्याकरणस्य शक्तिनिरूढलक्षणान्यतरप्रतिपादकत्वेन यत्र मु. ख्याऽर्थबाधप्रतिसन्धानादि तत्र शक्यसम्बन्धिनि लक्षणास्वीकारे बाधकाऽभावः । घटं जानातीत्यादितो घटादिविषयकज्ञानबोधस्य सर्वानुभवसिद्धस्य द्वितीयाया वृत्तिं विनाऽनुपपन्नतैव । लक्षणाकल्पकत्वाच्च "विभक्तौ न लक्षणा" इति प्रवादस्त्वेकविभक्तेरपरवि: भक्त्यर्थ न लक्षणेत्येतत्परोऽत एव, न व्यत्ययानुशासनवैयर्थम् । सुर्ण कर्मादयोऽप्यर्था इत्यत्र कर्मादिपदस्य गौणमुख्यसाधारणकर्मत्वपरतयाऽप्युपपत्तेन तद्विरोधोऽपीत्यत आह *दिगिति* । - तदर्थस्तु मुख्याऽर्थमादाय शास्त्रचारितार्थे गौणे तव्यापारे मानाभावः । नच घटं जानातीतिप्रसिद्धप्रायोगानुरोधेऽपि तद्यापारकल्पनाऽवशियति वाच्यम् । जानाते निविषयत्वापत्त्युपसजनविः षयत्वापादनार्थकतया मुख्यकर्मतयैवाऽस्मन्मते प्रयोगोपपत्तिसम्भः वात् । स्वानुभवैकगम्येऽर्थ लक्षणाऽभ्युपगमेऽर्थनिर्देशस्य वैया. पत्तश्चेत्यादिः।
(१) एवं च वृद्धनैयायिकविरोधेन व्याकरणविरोधेन च नव्यः नैयायिकमतमनादरणीयमिति भावः