________________
सुबर्थनिर्णयः ।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ॥ वार्त्तिकतद्भाष्याभ्यां कर्मादेवीच्यतायास्तनियमस्य च लाभः । तथाहि । “स्वौजसमौट्" ( पा० सू० ४। १ । २ ) “कमणि द्वितीया" ( पा० सू० २ । ३ । २ ) इति " येकयोर्द्विवचनैकवचने " ( पा० सू० १ । ४ । २२ ) इत्यादेः "लस्य" ( पा० सू० ३ । ४ । ७७) 'तिपून झि" ( पा० सू० ३ | ४ । ७९ ) " तान्येकवचन द्विवचन" ( पा० सू० १ । ४ । १०१ ) इत्यादेरेकवाक्यतया (१) कर्मादेस्तत्सङ्ख्यायाश्च वाच्यता लभ्यते । तथा तन्नियमश्च द्विविधो लभ्यते । द्वितीया कर्मण्येव तृतीया करण एवेत्येवमादिः शब्दनियमः । कर्मणि द्वितीयैव, करण तृतीयैवेत्येवमर्थनियमश्च । उभयथापि सिद्धनियमविरुद्धं लक्षणादिकमसाधुत्वप्रयोजकमिति, याज्ञे कर्मणि " नानृतं वदेत्” इति निषेधविषयो भवत्येवेति स्वेच्छ
२२३
चनम्" । ( ता० सू० १ । ४ । २१ ) इत्यादिस्त्रमित्याक्षेपे सुप्तिङ्ङामविशेषेण विधानाद् दृष्टविप्रयोगत्वाच्च नियमार्थे वचनमिति समा घाय, नियमाssकारप्रदर्शकमिदं श्लोकवार्त्तिकम ।
अथवा प्रकृतार्थानपेक्ष्य नियमः । के च प्रकृता, एकत्वादयः एकस्मिन्नेवैकवचनं, न द्वयोर्न बहुषु इत्यादि तद्भाष्यं च ताभ्यामि त्यर्थः ।
नियमाकारमाह—*द्वितीया कर्मण्येवेति ॥ प्रकृताऽभिप्रायम् । *उभयथापीति* ॥ विभक्त्यपेक्षया अर्थाऽपेक्षया चेत्यर्थः । विभक्तिनियमेोऽपि द्विधा अर्थविशेषाऽपेक्षस्तत्सामान्याऽपेक्षश्च ।
तत्राद्यः - कर्मार्थयेोग्य प्रातिपदिकाञ्चद् द्वितीया तदा कर्मण्येव, न करणादौ । कर्मादियोग्ये तद्रहितप्रातिपदिकार्थ एव प्रथमा, न कर्मा(१) एकवाक्यतात्वत्र वाक्यैकवाक्यता नतु पदैकवाक्यतेति
बोध्यम्