________________
२२२
दर्पणसहिते वैयाकरणभूषणसारे
को हस्तकरणको भिष्ठो व्यापार इति बोधः । यथायथम्-उ क्तप्रकारेण ॥
अत्र मानमुपदर्शयन्, 'घटं जानाति" इत्यादौ द्वितीयाया विषयतायां लक्षणेति बहाकुलं वदतो नैयायिकादीन् प्रत्याह सुपां कर्मेतीति ॥
अयं भावः
सुषां कर्मादयोऽप्यथः संख्या चैत्र तथा तिङाम् ।
“सम्बोधने च" (पा० सू०२ | ३ | ४७) इति विहितप्रथमायास्तु स. स्बोधनमर्थः । प्रातिपदिकार्थापेक्षया तस्याधिक्येन भानात् पूर्वसूत्राविषयत्वात् तत्सूत्रारम्भः । तच्चाभिमुखीभवनानुकूलो व्यापारः क्रि· यान्वय्येवेति प्रतिपादितं प्राक् । 'यथायथं विभक्त्यार्थाः' इत्यत्रत्यं यथायथपदं व्याचष्टे *उक्तप्रकारेणेति । यदर्थबांधे या विभक्तिः सम• र्था तस्याः सोऽर्थोऽवसेयः । त तथैवोक्तं प्रागू, द्वितीया तृतीयासप्तमीनामित्यादिनेति भावः ॥
1
*अत्रेति *सुपां कर्मादिवाचकत्व इत्यर्थः । *नैयायिकान् प्रतीति* । प्राचीनान् प्रतीत्यर्थः । यथा तन्मतं तथाख्यातशक्तिनिरूपणावसरे प्रतिपादितम् ।
ननु सुपां कर्मादयोऽप्यर्था इति भाष्यात् सिध्यतु तु तेषां कर्मादौ शक्तिः । विषयत्वादौ लक्षणायां तु किं बाधकम् । क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वबाध एव तत्प्रसरादत उत्तरार्द्धप्रदर्शित. नियमं बाधकत्वेनोपदर्शयिष्यन्नाशयं प्रकाशयति *अयं भाव इत्यादि* । “स्वौजसमौ” ( पा० सू० ४ । १ । २) इत्यत्र कारकावभाक्तवा दो द्वितीयायां उपादानादू वार्तिकेऽपि तदर्थकर्मणः प्राड् निर्देशः । कर्मादित्यादिना, कारकान्तरसंग्रहः । अपिना शक्तिः कारकमि तिरक्षोक्तकर्मत्यादिशक्तीनां समुच्चयः ॥
* तथा तिङामिति । तद्वतिङामपि सङ्ख्या कर्माद्यर्थे इत्यर्थः । तत्र=सुप्तिङ्क्षु | प्रकृतेषु = अर्थेष्वित्यर्थः । *वार्तिकतद्भाष्येति । लो. कादेव बहुत्वादिषु बहुवचनादि भविष्यति, किमर्थे, "बहुषु बहुव