SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ૨૨૦ दर्पणसहिते वैयाकरणभूषणसारे नमित्यादिना प्रसज्यप्रतिषेधे पर्युदासे वा नर्थे दृषणं परिहत्य यदि साधनं द्रव्यं स्यात् तदेकमेव । तच्चाऽभिहितमिति पूर्वोक्तप. रिहारो न सम्भवति । अथ शक्तिः साधनं तदा तस्याभेदादनभिहि. तत्वसम्भवाद्भवत्युक्तपरिदार इत्यभिप्रेत्य किं पुनद्रव्यं साधनमाहो. स्विद् गुण इत्याशयोक्तं, किं पुनःसाधनं न्याय्यं ? गुण इत्याह । क. थं ज्ञायते । एवं हि कश्चित कश्चित् पृच्छति, क देवदत्त इति ? । स तस्मायाचष्टेऽसौ वृक्षे इति । कतरस्मिन् यस्तिष्ठति स वृक्षाऽधिकर. णं भूत्वाऽन्यशब्देनाभिसम्बध्यमानः कर्ता सम्पद्यते । द्रव्ये साधने यत् कर्म कर्मैव स्याद्यत् करणं करणमेव यदधिकरणमधिक रणमेव इति । . कैयटेनाऽपि “यदि द्रव्यं साधनं स्यात् तदा तस्यैकरूपत्वात् तन्निबन्धनाबाधितप्रत्यभिज्ञाविषयत्वाद् नानार्थक्रियाकरणनिब. धनो घटेन जलमाहर घटं कुरु घटोऽस्तीति व्यपदेशो न स्यात् । दृश्यते चाऽसौ । तस्मानानाशक्तिभावावगमः सिद्धः" इति त. द्विवृतम्। ___ एवं च शक्तिपक्षम्याऽऽकरसम्मततया द्वितीयादीनां कर्मत्वा. दौ शक्तिरिति वदतां मतमपि सम्यगेवेति भावः ।प्रातिपदिकार्थेति. सूत्रविहितप्रथमाया यथायथं प्रातिपदिकार्थो लिङ्गं परिमाणं चाऽर्थः। . कर्माऽऽद्याधिक्ये प्रथमा मा भूदिति तत्र मात्रग्रहणम् । द्वन्द्वामते श्रूयमाणस्य तस्य प्रत्येक द्वन्द्वघटकपदार्थेऽन्वयात् प्रातिपदिका. र्थमात्रे प्रथमेत्यादिवाक्यभङ्गः । प्रातिपदिकार्थत्वं च नामनिष्टशक्त्य. धच्छिन्नजनकतानिरूपितजन्यताश्रयोपस्थितित्वव्यापकविषयताप्र. तियोगित्वम । उच्चरित्याद्यर्थविषयितायास्ताहशोपस्थितित्वव्या. पकत्वात् तत्र प्रथमोपपत्तिः। . . एवं कृष्ण इत्यादी कृष्णादिविषयिताया इव पुंल्लिङ्गादिविषयि. ताया अपि तदुपस्थितित्वनयत्यं व्यक्तमेव । यद्यपि, द्विकं प्रातिपदि. कार्थः' इति पक्षे लिङ्गस्योपस्थितिविषयत्वं दुर्घटं, तथाप्यनुभवाऽनु. रोधेन शक्यार्थोपस्थितेः प्राग लिङ्गोबोधसमवधानस्य नियमन कल्पनात् तस्य तत्वं बोध्यम् । एवञ्चालिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणानि । तटादिशब्दजन्योपस्थितौ तु पु. ल्लिङ्गादिभानस्यानयत्यात्तत्राप्राप्तप्रथमाविधानाय लिङ्गग्रहणम् । .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy