SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । २१९ "सप्तमीपञ्चम्यौ कारकमध्ये" ( पा० सू० २ । ३ । ७ ) इति सूत्रे शक्तिः कारकमिति पक्षस्य भाध्ये दर्शनात् । एवञ्च, Sस्तराऽसमभिव्याहारे स्वरूपेणैव प्रतीयमानत्वान्न विशेष्यतानियामकसम्बन्धाकाङ्क्षा । तत्र विशेषणे अभिधीयमानः षष्ठ्या प्रतीयमानः प्रधाने विशेष्येऽपि उपयुज्यते । तस्य द्विष्ठत्वस्वभावाद्राजनिरूपितविशेष्यताया राजपदसन्निधाने प्रतीयमानाया उपकारको म वतीति तदर्थः ॥ *कारकषष्ठ्या इति* । "कर्तृकर्मणोः कृति” ( पा० सू० २ । ३ । ६५ ) इत्यादिसूत्रविहितषष्ठ्या इत्यर्थः । शेषविहितषष्ठ्याः लम्ब म्धरूपधर्मत्राचकतया षष्ठीत्वेनैतस्या अपि तद्वाचकत्वस्य न्याय्यस्वादिति भावः । ननु कर्त्तृकर्मादिकारकविहिततृतीयादीनां कथं कर्त्रादिधर्मवाचकत्वमतआह *सप्तमीपञ्चम्याविति । तथाच ध मस्याsपि कारकत्वस्य भाष्यसम्मतत्वेन तासां तद्वाचकत्वे न दोष इति भावः ॥ *दर्शनादिति* ॥ तत्र हि द्रव्यं कारकमिति पक्षे 'अद्य भुक्त्वा • ऽयं द्वहे भोक्ता' इत्यादौ देवदत्तरूपकर्तृकारकस्यैक्यान्मध्यव्यपदेशासम्भवादप्राप्तसप्तमीपञ्चम्योरुपपादनाय प्रवृत्तस्य 'क्रियामध्य इति वक्तव्यम्' इति वार्त्तिकखण्डनायोक्तम् । नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति । क्रियामध्यं च कारकमध्यमपि भवति । तत्र कारकमध्ये इत्येव सिद्धमिति तत्र साधनमित्यस्य शक्तिमित्यर्थः । तथाच देवदत्तादिरूपकर्त्तृद्रव्यस्यैकयेऽपि कालभेदभिन्नभुजि क्रियाऽनुमितकारकपदार्थक र्त्तृत्वशक्त्योर्भेदात् तन्निमित्तमध्यव्यपदेशाऽबाधाद्यथोक्तेऽनुपपच्यभाषात् 'क्रियामध्ये', इति वार्त्तिकं मारमणीयमिति तद्भावः । इदमुपलक्षणमनभिहितसूत्रभाष्यस्य । तत्र 'संख्या विभक्त्य थे' इति पक्षेणाऽनभिहिताधिकारं समर्थ्य द्वयोः कारकयोरन्यतराsभिधाने विभक्त्यभावप्रसङ्गः क्व ? 'प्रासाद आस्ते' 'शयन मा. ते', यदि प्रत्ययेनाऽभिहितमधिकरणमिति कृत्वा सप्तमी न प्रा. प्नोतीत्याशङ्कय, न वान्यतरेणाऽभिधानात् अनभिहिते विश्वा
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy